________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
प्रतिक्रमणचूदिौ । एतेन पुस्तकसिद्धान्तपुरस्कारेण नवीनमार्गव्यवस्थापकाः सर्वेऽपि जैनागमविगोपका एवेति दर्शितं बोध्यं । सिद्धान्तोक्तव्यतिकराभावेऽपि अध्ययनाध्यापनोपदेशादिषु प्रवर्तनात् । उक्तव्यतिकरस्तु परम्पराशन्यानां लेशतोऽपि न भवति, तेषां जैनागमस्य लेशतोप्यभावात् । जैनप्रवचने च साम्प्रतमागमः परम्परागम एव भवतीत्यग्रे दर्शयिष्यते । अत एव तेषां जैनागमवचनानुवादोऽपि न भवति, नवीनमार्गप्रकाशकत्वेन शिवभूतिचन्द्रप्रभाचार्यादीनां स्वयमेव देवस्वरूपत्वादित्य व्यक्तिकरिष्यते इति गाथार्थः ॥७॥ ____ अथानुयोगस्य प्रकारत्रयं दिदर्शयिषुः भगवत्याद्यागमोक्तामेव गाथामाह-- सुत्तत्थो खलु पढमो, बीओ णिज्जुत्तिमीसओ भणिओ। तइयो अ गिरवसेसो, एस विही होइ अणुओगे ॥८॥ ___व्याख्या-सूत्रस्यार्थः सूत्रार्थः, सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगेऽसौ सूत्रार्थ इत्युच्यते। सूत्रमात्रप्रतिपादनप्रधानोऽर्थः सूत्रार्थः । खलुशब्दस्त्वेवकारार्थः । स चावधारणे । एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधायकः प्रथमानुयोगो कर्तव्यः । मा भूत् प्राथमिकविनेयस्य मतिसम्मोहः । द्वितीयस्तु अनुयोगो नियुक्तिमिश्रकः कार्यः । तत्र नियुक्तिरपि सव्याख्याना वक्तव्या । तस्या अपि सूत्रव्याख्यानता निजव्याख्यानात्तैव भवति, सूत्रस्येव तस्या अपि सूत्रत्वेन दुरवगाह्यत्वात् । अत एव निर्युक्तेरपि अनुयोगः सूत्रस्येवा विशेषेण भणितः । यदा
For Private And Personal Use Only