________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम् i
११
गमः - 'से कि तं अणुगमे २ दुबिहे पं० तं० सुत्ताणुगमे निज्जुत्तिअणुगमे' त्ति श्री अनुयोगद्वारे । तृतीयस्तु निरवशेषःप्रसङगानुप्रसंगागतः सर्वोप्यर्थो वाच्यः । तत्र प्रसंगागतो भाष्यस्तद्व्याख्यानरूपः । अनुप्रसंगागतस्तु तदनुगतचरित्रादिरूपः पुरो वक्ष्यते इति गाथार्थः ॥ ८ ॥
अथ याणामपि प्रकाराणां प्रकृते भणितिमधिकृत्य विशेषमाह---
।
तत्थणुओगो पढमो, पढमपयस्सेव पुत्रभणियस्स । सुपसिद्धो इअराणं, दंसेमि दिसंपि तस्सेव || ६ |
व्याख्या तत्र त्रिषु अनुयोगप्रकारेषु पूर्वभणितस्य 'णमो अरिहंताण' मित्येतावन्मात्रस्य प्रथमपदस्य प्रथमोऽनुयोगः सुप्रसिद्धः, शब्दव्युत्पत्तिमात्र गम्यत्वात् । स चैवं नम इति नैपातिकं पदं करचरणमस्तकैः सुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थाभिधायकं । केभ्यो ? अर्हदृभ्यः - अमरवरनिर्मिताष्टमहाप्रातिहार्यरूपां पूजामर्हन्तस्तेभ्य इत्यादिरूपेणाव सातव्यः । इतरयोस्तु - निर्युक्तिमिश्रक-निरवशेषलक्षणयोरनुयोगयोः 'तस्यैव ' णमो अरिहंताणमितिपदमात्रस्यैव दिशं दर्शयामीति गाथार्थः ॥ 8 ।
अथ द्वितीयानुयोगस्य स्वरूपं दर्शयन् निर्युक्तिविवेकमाहजो णिज्जुतीत्तो, बीओ भणिओ अ सुत्तअणुओगो । सा णिज्जुती तिविहा, सुपसिद्धा होइ जिणसमए ॥१०॥ व्याख्या--यः चकारो गम्यः, यश्च सूत्रानुयोगो निर्युक्तिमिश्रको द्वितीय भणितः । सा च निर्युक्तिस्त्रिविधा
For Private And Personal Use Only