Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 22
________________ बालबोधिनीविवृतिविभूषितं अथ सप्तभङ्गी प्रारभ्यते । जैनानां तावत् सप्तभङ्गी विजिज्ञासितव्या, सैव तेषां प्रमाणभूमिमारचयति । दुर्दमपरवादिवाद सप्तभङ्ग-नयविस्तरकथनप्रतिज्ञायां सप्तभङ्गाऽऽत्मकमहावाक्यरूपसप्तभन्या निरूपणस्य प्राथम्यं मनसिकृत्य तामधिकरोति - अथेति । एकान्तवादिमते विधि-निषेधयोः परस्परं विरुद्धयोर्नैकस्मिन् समावेश इति विधि - निषेधप्रतिपादकभङ्गद्वयस्याभावे नास्त्येव सप्तभङ्गीति तज्जिज्ञासाया अप्यभावान्नैकान्तवादिजिज्ञासितव्यत्वं सप्तभङ्गयाः, तथाऽप्यनेकान्तवादिमतेऽनन्तधर्मात्मके वस्तुनि एकैकधर्ममभिमुखीकृत्य विधि - निषेध - कल्पनया सप्तानां धर्माणां सम्भवे तत्प्रतिपादकसप्तभङ्गसमूहाऽऽत्म कसप्तभङ्गीत एव निराकाङ्क्षार्थावबोध इति तत्प्रभवसंस्कारमाहात्म्यतः प्रमाणान्तरेऽप्यनेकान्तात्मार्थाध्यवसायस्योल्लेखः सप्तभङ्गपरिकर्मित इति तत एव प्रामाण्यावसितिः, अन्यथा स्याद्वादिनां निराकाङ्क्षबोध एव न भवेदिति सप्तभङ्गी जिज्ञासितव्येत्याह - जैनानामिति । सप्तभङ्गघाः फलवत्त्वे सत्येव तज्जिज्ञासा प्रेक्षावतां स्याद्, अतस्तस्याः सकलप्रमाणविषयोल्लेखशेखरत्वेन प्रमाणमूर्धाभिषिक्तत्वादुपादेयत्वमित्याह - सैवेति । सप्तभयेवेत्यर्थः । तेषां जैनानाम् । प्रमाणभूमिं प्रमाणभावम् । आरचयति व्यवस्थापयति, सप्तभङ्गीत एव खखप्रतिनियत निमित्तापेक्षायाsविरोधेन विधि - निषेधादिलक्षणधर्मव्यवस्थितौ तथा तत्तद्धर्मावगाहिबोधस्वरूपस्य प्रमाणस्य प्रमाणत्वं सम्यग् व्यवस्थितं भवति, अन्यथा स्वस्व - निमित्तभेदाप्रतिसन्धानतोऽवधारणमेव विरोधाघातत्वान्न भवेदिति न कस्यापि प्रमाणस्य प्रामाण्यं व्यवतिष्ठेत, एकान्तवादिनस्तु न विरुद्धधर्मद्वयसन्निपात इति न निमित्त मेदापेक्षेति न सप्तभङ्गी जिज्ञासितव्येति भावः ।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138