Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 43
________________ सप्तभङ्गी नयप्रदीपप्रकरणम् । त्वात्मकैकधर्मस्यैवावबोधः, इति विधि-निषेधधर्मद्वयाकलितवस्तुप्रतिपत्त्यभावे तद्विषयिणी आकाङ्क्षा नोपशाम्यतीति विधिनिषेधधर्मद्वयावगतिनिबन्धनं वाक्यमवश्यमेषितव्यम्, तत्र धर्मद्वयावबोधः क्रमसन्निविष्टधर्मद्वयप्रतिपादकवचनद्वयसमनुगतवाक्यात् , तच्च वाक्यं 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति । प्रथमभङ्गेन कथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताको बोधो भवति, द्वितीयभङ्गेन कथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताको बोधो भवति, उक्तभङ्गयोः सम्मेलनेनैकवाक्यतायामपि कथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताकः कथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेप्यताकश्च समूहालम्बनबोध एव भवेत् , न तु कथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपिता सती कथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपिता या घटनिष्ठविशेष्यता तन्निरूपको बोध इति तादृशबोधनिवाकाङ्खानिवर्तकः 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति तृतीयभन्न आवश्यकः । अपि च द्रव्यार्थिकसवहनयादेशाद् यथा कथञ्चिदस्तित्वं धर्मस्तदवबोधनिबन्धनमेकं वचनम् , व्यवहारनयादेशात् कथञ्चिन्नास्तित्वं धर्मस्तदवबोधनिबन्धनं द्वितीयं वचनम् , तथा क्रमेणोक्तनयद्वयार्पणातः कथञ्चिदस्तित्वविशिष्टकथञ्चिन्नास्तित्वखरूपं धर्मान्तरमेव वस्तुनि समुपतिष्ठत इति तत्प्रतिपादकं तृतीयं वचनम् , तेन च कथञ्चिदस्तित्वविशिष्टकथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताको बोधो विशिष्टलक्षणधर्मान्तरविषयको जायते, तादृशश्व बोधो न सममिन्याहृताभ्यामात प्रथम-द्वितीयभङ्गाभ्यामिति तृतीयभास्यावश्यकत्वम् । अस्तित्वं नास्तित्वं च नययविषयो युगपदेव वस्तुनि प्रधानभावेन तिटन इति युगपदेव प्रधानभावेन विवक्षितौ तौ नातीतभात्रमसमधिगती, न च युगपलपान

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138