Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 50
________________ ३२ बालबोधिनीविवृतिविभूषितं कृतस्त्र पदार्थस्यांशो अंशा वा ( अंशोंऽशावंशा वा ), नीयतेप्राप्यते, इतरांशौदासीन्यभावेन स नयः, 'अंश:' इत्येकवचनं जातावेकवचनम् । तदितरांशप्रतिक्षेपे तु तदाभासताप्रसङ्गः, तदुक्तं पञ्चाशति “निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां वस्तूनां नियतांशकल्पनपराः सप्त श्रुता भ(ssस) ङ्गिनः । औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नयाश्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः " ॥१॥ अंशादिग्राहिणश्च प्रत्यक्षादेर्वस्तुस्थित्या न प्रमाणत्वं किन्तु नयत्वमेव, 'प्रत्यक्षादिप्रमाणेन' इत्युक्तिश्च तद्वति तत्प्रकारकत्वलक्षणव्यावहारिकप्रामाण्य समाश्रयणेन नयेऽपि च तादृशप्रामाण्यमनुमतमेवेति बोध्यम् । यदि अंशों शावंशा वा 'अंश:' इत्यनेन परिगृह्यन्ते तर्हि 'अंशः' इत्येकवचनं कथं संगतमित्यपेक्षायामाह -- अंश इत्येकवचनमिति । इतरांशौदासीन्यभावेन नीयत इति यदुक्तं तत्प्रयोजनमुपदर्शयति-तदित शप्रतिक्षेपे त्विति । तदाभासताप्रसङ्गः नयाभासताप्रसङ्गः । वस्तुनो नियतांशग्राहिण इतरांशाऽप्रतिक्षेपिणो नयत्वम्, इतरांशप्रतिक्षेपिणस्तु नयाभासत्वमित्यत्र पञ्चाशद्वचनं प्रमाणयति - तदुक्तमिति । निःशेषेति - समस्तांशवतां प्रमाणविषयाणां वस्तूनां नियतांशकल्पनपराः - प्रतिनियतांशविषयाः, अपरस्मिन्नंशे चौदासीन्यपराः सप्तप्रकारा आगमोक्ता नया भवेयुः, ते पुनः, एकान्तकलङ्कपङ्ककलुषाःप्रतिनियतांशमात्रमवगाहमानाः सन्तस्तदितरांशप्रतिक्षेपिणः स्युश्चेत् तदा दुर्नया ज्ञेया इत्यर्थः ॥ १ ॥ -

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138