Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 63
________________ सप्तभङ्गी-नयप्रदीपप्रकरणम् । ऽसावशुद्धद्रव्यार्थिको वा, यथैकस्मिन् समये द्रव्यमुत्पाद-व्ययध्रौव्ययुक्तम् ९ । भेदकल्पनासापेक्षोऽसावशुद्धद्रव्यार्थिको वा, यथाऽऽत्मनो दर्शन-ज्ञानादयो गुणाः १०। उक्ता द्रव्यार्थिकस्य भेदाः ॥ साम्प्रतं पर्यायार्थिकनयं व्याचिख्यासुराह-पयति-उत्पादमुत्पत्तिं [ व्ययं ] विपत्तिं च प्राप्नोतीति पर्यायः, यदुक्तम् "अनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् । उन्मजन्ति निमज्जन्ति कूलकल्लोलवजले" ।। व्ययसापेक्ष इति । उदाहरति-यथेति । तृतीयं द्रव्यार्थिकस्य दशमं भेदं दर्शयति--भेदकल्पनासापेक्ष इति । उदाहरति—यथेति ॥ इति सप्रभेदद्रव्यार्थिकनयनिरूपणम् ॥ अथ पर्यायार्थिकनयनिरूपणम् समासतो नयो द्विविधः-द्रव्यार्थिकः पर्यायार्थिकश्च, तत्र प्रथमोद्दिष्टो द्रव्यार्थिक एतावता निरूपितः, अथ क्रमप्राप्तं पर्यायार्थिकनयं निरूपयति—साम्प्रतमिति । पर्याय एवार्थः प्रयोजनमस्यासौ पर्यायार्थिक इति निरुक्तिमाश्रित्य पर्यायार्थिकनयस्वरूपं व्याख्यातुकाम आचार्यों व्युत्पत्तितः पर्यायस्वरूपं तावदाह-पर्येतीति । पर्येतीति पर्यायः, तत्र पर्येतीत्यनेन किमुक्तं भवतीत्यपेक्षायामाह-उत्पादमुत्पत्तिं विपत्तिं च प्रामोतीति । उत्पत्तिं विपत्तिं च य आमोति स पर्याय इत्यत्र प्राचां सम्मतिमुपदर्शयति-यदुक्तमिति । अनादिनिधने उत्पाद-विनाशरहिते द्रव्ये, स्वपर्यायाः द्रव्यस्य परिणामाः, प्रतिक्षणमुन्मजन्ति उत्पद्यन्ते निमजन्ति विनश्यन्ति जले समुद्राद्यात्मनि कूलकल्लोलवत् तटे आगच्छद्विगच्छत्तरङ्गवदित्यर्थः । उत्पाद-विनाश

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138