Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 79
________________ सप्तभङ्गी नयप्रदीपप्रकरणम् । तत्र नैगमद्रव्यार्थिकनयो धर्म-धर्मि-द्रव्य-पर्यायादिप्रधानाप्रधानादिगोचरः। तेन गृहीतस्य वस्तुनः सम्पिण्डितार्थ वदतीति सङ्ग्रहः, सङ्ग्रहद्रव्यार्थिकस्त्वभेदरूपतया वस्तुजातं सम्-एकीभावेन गृह्णातीति । सङ्ग्रहेण गृहीतस्य गोचरीकृतस्यार्थस्य भेद ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चानार्थे । यतितव्यमेवेति य उपदेशः स नयो नाम" ॥ १४०॥ इति संस्कृतम् । इत्थं सङ्केपेण नैगमादिनये सुलक्षितेऽपि विशेषतो नैगमादिनयविषयावगतिनिबन्धनं तल्लक्षणमुपदर्शयितुकाम आह-तत्रेति-नैगमादिनयेषु मध्य इत्यर्थः । धर्मेति-धर्म धर्मिणोः प्रधानतया धर्ममप्रधानतया धर्मिणम् , प्रधानतया धर्मिणमप्रधानतया धर्मम् , धर्मयोर्वैक प्रधानतयाऽपरमप्रधानतया, धर्मिणोकं प्रधानतयाऽपरमप्रधानतयाऽवगाहमानो नयो नैगमद्रव्यार्थिकनयः, तथा द्रव्य-पर्याययोर्द्रव्ययोः पर्याययोकं प्रधानतयाऽपरमप्रधानतयाऽवगाहमानो नयो नैगमद्रव्यार्थिकनय इत्यर्थः। सङ्घहनयस्वरूपं लक्षयति-तेनेति-नैगमनयेन गृहीतस्य सामान्यात्मकस्य विशेषात्मकस्य वस्तुनः सम्पिण्डितार्थं महासामान्यसत्तास्वरूपेण सङ्ग्रहीतमेकीभूतस्वरूपमर्थ वदति प्रतिपादयतीति सङ्ग्रह इत्यर्थः । सङ्घहद्रव्यार्थिकनयो वस्तुमात्रं महासामान्यसद्रूपेणाभेदरूपतयैकरूपतया गृलातीत्याह-सङ्ग्रहद्रव्यार्थिकस्त्विति-सङ्ग्रहे सम्शब्दो ग्रहशब्दश्च, तत्र 'सम्' इत्यस्यैक्रीभावेन 'ग्रह' इत्यस्य ग्रहणमित्यर्थत उक्तार्थलाभः । व्यवहारद्रव्यार्थिकनयं लक्षयति–सङ्ग्रहेणेति । अर्थस्य सामान्यरूपस्य।

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138