Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 96
________________ बालबोधिनीविवृतिविभूषितं एतावतोपचरितत्वमशुद्धत्वम्, अनुपचरितत्वं शुद्धत्वमिति बोध्यम् । निरुक्तनियुक्त्युपदर्शित खरूपस्य व्यवहारस्य सद्भूतव्यवहारादयश्चतुर्दश भेदाः, तत्र प्रथमं सद्भूतव्यवहाराख्यं भेदमुपदर्शयति-गुण-गुणिनोरिति-गुण- गुणिनोर्भेदाद् भेदकः सद्भूतव्यवहार इत्यन्वयः इत्थमेव द्रव्य - पर्याययोरित्यादावप्यन्वयो बोध्यः । यद्यपि स्वमते सहभाविपर्याय एव गुण इति द्रव्य-पर्याययोरित्यनेनैव गुण-गुणिनोरित्यस्य गतार्थता, एवं संज्ञा-स्वभाव-कारक - क्रियाणामपि पर्यायरूपत्वाद् द्रव्य-पर्याययोरित्यनेनैव गतार्थता, तथा दिगम्बरमते गुण-स्वभावादीनां पर्यायात् पार्थक्यमिति तन्मतानुसारेणेवेदं व्यवहारभेदप्रपञ्चनम्, अतः पार्थक्ये - नाभिधानमिति बोध्यम् । यद्यपि सद्भूतव्यवहारः शुद्धसद्भूतव्यवहारोपचरितसद्भृतव्यवहारानुप ७ चरितसद्भूतव्यवहाराशुद्धसद्भूतव्यवहारेष्वनन्तरमेवाभिधीयमानेष्वन्तर्भवतीति न तस्य पार्थक्येनाभिधानमुचितम्, यदि च पार्थक्येनाभिधानं नेष्टमस्य, तर्हि सद्भूतव्यवहारश्चतुर्धा शुद्धोपचरितानुपचरिताशुद्धभेदादित्येवं तदभिधानं युक्तं स्यात् न च तथाऽनभिधानेऽपीष्टं तथैव अन्यथा तस्य पृथक्तयाऽभिमतत्वे तदुदाहरणमपि पृथगभिहितं स्याद्, न च तदुदाहरणं किश्चिदुक्तमिति वाच्यम्, एवं सति शुद्धसद्भूतव्यवहारोऽशुद्धसद्भूतव्यवहारश्च पृथग् नाभिधातुं युक्तौ तयोरप्युदाहरणानुपदर्शनात् । न च यदेवानुपचरितसद्भूतव्यवहारस्योदाहरणं तदेव शुद्धसद्भूतव्यवहारस्य, यदेव चोपचरितसद्भूतव्यवहारस्योदाहरणं तदेवाशुद्धसद्भूतव्यवहारस्येत्यत उदाहरणान्तरानुपदर्शनं तयोरिति वाच्यम्, तथा सति अनुपचरितसद्भूतव्यवहार एव शुद्धसद्भूतव्यवहारः, उपचरित - सद्भूतव्यवहार एव चाशुद्धसद्भूतव्यवहार इत्येवमपि सद्भूतव्यवहारस्य

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138