Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 100
________________ बालबोधिनीविवृतिविभूषितं सद्भूतव्यवहारः, यथा-ज्ञेये जीवे चाजीवे ज्ञानमिति कथनं तयोनिविषयत्वात् ८। स्वजात्युपचरितासद्भूतव्यवहारः, यथा प्रसिद्धस्य धर्मस्य समारोपणमस्ति, मूर्तिमतो विजातीयं च मतिज्ञानमिति भवति विजात्यसद्भूतव्यवहार इत्यर्थः । अष्टमं भेदमुपदर्शयति-उभयासद्भूतव्यवहार इति-स्वजातिविजात्युभयविषयकं यद् अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणं स उभयासद्भूतव्यवहार इत्यर्थः । उदाहरति-- यथेति-'ज्ञेये जीवे चाजीवे ज्ञानम्' इत्यत्र ज्ञातृस्वभावस्य ज्ञानलक्षणोपयोगस्य ज्ञातरि प्रसिद्धस्य ज्ञातृभिन्ने ज्ञेयभूते जीवेऽजीवे च समारोपणमस्ति, ज्ञातृखभावस्य ज्ञानस्य जीवो ज्ञेयस्वरूपः सजातीयः, विजातीयश्चाजीव इति, तदुभयं च विषय इति भवति सजाति-विजात्युभयासद्भूतव्यवहार इति, जीवे 'ज्ञेये' इति विशेषणोपादानेनेदं ज्ञापितम् , यदुत ज्ञानं जीवस्य धर्मो भवति, परमसौ ज्ञातुर्जीवस्य न तु तद्भिन्नस्य ज्ञेयतयाऽभिमतस्य जीवस्येति, तत्र तस्य समारोपणमेवेत्यर्थः । तयोः जीवाजीवयोः । नवमं भेदमुपदर्शयति-स्वजात्युपचरितासद्भूतव्यवहार इतिस्वजात्यसद्भूतव्यवहारस्य यल्लक्षणं तदेवोपचरितत्वविशेषणमधिकमुपादायाऽस्य लक्षणमवसेयम् , यथा च खजात्यसद्भूतव्यवहारादिष्वन्तर्भावयितुं शक्योऽप्यसद्भूतव्यवहारो दैगम्बरी प्रक्रियामाश्रित्य पार्थक्यमनुभवति सामान्य-विशेषयोर्भेदोपासनतस्तथैव स्वजात्युपचरितासद्भूतव्यवहारादिष्वन्तर्भवनशीला अपि स्वजात्यसद्भूतव्यवहारादयो दैगम्बरी प्रक्रियामवलम्ब्यैव पार्थक्यभाजोऽवसेयाः । उदाहरति-यथेति-'पुत्र

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138