Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 123
________________ सप्तभङ्गीनयप्रदीपप्रकरणम् । १०५ ससानां नैगमादिनयानामेकैकश्च प्रभेदतः शतभेदः, एवं सर्वैरपि अभेदैः सप्त शतानि भवन्ति । प्रकारान्तरे पश्चापि नया:, कदा ? यदा शब्दादिभिस्त्रिभिनयैरेक एव शब्दनयो विवक्ष्यते तदा पञ्च, एकैकस्य च शतविधत्वात् पञ्च शतानि नयानाम् । अपिशब्दः पुनरर्थे । षट् चत्वारि च शतानि, द्वे वा शते नयानाम् , कदा? यदा सामान्यग्राहिनैगमस्य सङ्ग्रहेऽन्तर्भावः, विशेषग्राहिनैगमस्य तु व्यवहारेऽन्तर्भावो विवक्ष्यते तदा मूलनयानां षड्विधत्वादेकैकस्य च शतभेदत्वात् षट् शतानि । तानाहेति । इक्किको० इति-"एकैकश्च शतविधः सप्त नयशतानि भवन्त्येवमेव । अन्योऽपि च आदेशः पञ्चैव शतानि नयानां तु" ॥ इति संस्कृतम् । नयानां सप्तशतविधत्वमुपपादयति--सप्तानामिति । शतभेद इति-कथमेवमित्याकाङ्कोपशमनाय मूलकृता नोक्तमेव किमपीति ग्रन्थान्तरतः प्रत्येकं शतभेदत्वावगमे यत्न आस्थेयो विशेष जिज्ञासुभिः । आदेशान्तरे मूलनयानां पञ्चविधत्वम् , प्रत्येकं च शतभेदत्वमिति सर्वैरपि प्रभेदैः पञ्च शतानि नयानामित्याह-प्रकारान्तर इति । नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्दाः पञ्च नयाः, शब्दत्वेन च साम्प्रत-समभिरूद्वैवम्भूतास्त्रयोऽपि नयाः सङ्गृह्यन्ते, इत्थं विवक्षायां मूलनयानां पञ्चविधत्वम्, प्रत्येक शतविधत्वे पञ्च शतानीत्याह-- यदेति । शब्दादिभिः शब्द-समभिरूढैवम्भूतैः । अपिशब्दः 'अन्योऽपि च' इत्यत्रापिशब्दः । षट्शतत्वं नयानामुपपादयति-यदेतिनैगमस्य सङ्ग्रह-व्यवहारयोरन्तर्भावादतिरिक्तस्याभावे मूलनयाः षद, प्रत्येकं च शतविधत्वे षट् शतानीति । नैगमस्य सङ्ग्रह-व्यवहारयोरन्तर्भावतोऽर्थनयाः सङ्ग्रह-ज्यवहारर्जुसूत्रास्त्रयः, शब्दनयत्वेन शब्दसम

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138