Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 133
________________ सप्तभङ्गी नयप्रदीपप्रकरणम् । ११५ गम्भीरध्वनिना धनाधनरवं हास्यास्पदं कुर्वता ___ तारेणाखिलभब्यकेकिनिकराऽऽनन्दं ददानः सना ॥ ११ ॥ तीर्थानामवने समुद्धृतिकृतौ लीनान्तरालः सदा शीलं शैशवतोऽमलं च कलयन्नाचार्यचूलामणिः । सम्राट् श्रीजिनशासनस्य वसतिः प्रौढप्रतापश्रियो राराजीतितरां जगद्गुरुरयं श्रीनेमिसूरीश्वरः ।। १२ ॥ [वसन्ततिलकावृत्ते] ईडे सुदर्शनधरं पुरुषोत्तमं तं मैत्रीयुतं समुदयश्रियमादधानम् । सनन्दनं सुमनसामनुरागचङ्गं विज्ञानतामरसतामरसाकरं च ॥ १३ ॥ भव्यालिपङ्कविकलं जडतातिगं च नित्यं पुनानमखिलं किल साधुपनम् । सन्दर्शिताऽमृतपथं वरदेशनातो लावण्यमन्दिरमुदारमनोऽभिरामम्॥१४॥ [ उपजातिवृत्ते ] नम्यं नरेन्द्रैः सुजयन्तमार्यदक्षं सुशीलोच्चविशुद्धचित्तम् । कल्याणभृत्केवलनामधेयजिनप्रभोल्लासितभावविज्ञम् ॥ १५॥ सच्चन्दनं सज्जनतापहारं प्रौढप्रभावं विबुधार्चितं च । सन्मङ्गलं सचरणादिकान्तं मतीशमान्यं निपुणं सुमुक्तिं ॥ १६ ॥ चतुर्भिः कलापकम् । [शार्दूलविक्रीडितवृत्तानि ] वीरे जीवति नन्दिवर्धनमहीनाथेन निर्मापितं बिम्ब वीरविभोः सुधांशुविमलं यस्यां सदा राजते । rom www M

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138