Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 131
________________ सप्तभङ्गी - नयप्रदीपप्रकरणम् । प्रशस्तिः । [ उपजातिवृत्तम् ] श्रीनाभिजातं शुभशान्तिनाथं सुभव्यराजीनयनामृतं च । प्रकाशिपं श्रीशुभवर्द्धमानं नमामि नित्यं जिनराजराजम् ॥ १ ॥ MM wwwwwww [ शार्दूलविक्रीडितवृत्तानि ] लोकालोकविलोकिनो जिनपतेर्दूरीकृतांहस्ततेः सोल्लासैरमराधिपैः कृतनतेः सूर्यातिगाङ्गयुतेः । गीरीशस्य च नश्च शासनपतेः सिद्धार्थ सत्सन्ततेः पट्टे धर्मधुरन्धरं विजयते वीरप्रभोः सन्मतेः ॥ २ ॥ तत्र श्रीश्रुतकेवली गणिमणिश्चारित्रचूडामणि र्निर्ग्रन्थाभिधमच्छगच्छमतनोत् स्वामी सुधर्माभिधः । कोटीशः किल सूरिमन्त्रकलनात् कोटीति नाम्नोज्ज्वलं www गच्छं चाच्छमतिश्च सुस्थित इति श्रीसूरिपोऽनु व्यधात् ॥३॥ wwww चन्द्रं चन्द्रकलाकलापधवलं भूयोयशोमालिनं www गच्छं चानुचकार चारुचरणः श्रीचन्द्रसूरीश्वरः । तत्रैवानु च सूरिराट् शमनिधिः सामन्तभद्राभिधो wwwww www व्यातेने वनवासिगच्छममलं लीनं गणानां गणे ॥ ४ ॥ संतापापहरं समाश्रितनृणां शाखावलीलालितं दीक्षादानशुभास्पदं सुचरणाबद्धं विशालोन्नतम् | श्रेयांसं वटगच्छमच्छमतुलं सत्पुण्यपण्यापण ११३ माचार्याधिप आततान तदनु श्रीसर्वदेवाभिधः ॥ ५ ॥ ८ सप्तभङ्गी • www

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138