Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 124
________________ बालबोधिनीविवृतिविभूषितं कदा चत्वारीति? यदा सङ्ग्रहव्यवहारर्जुसूत्रलक्षणास्त्रयोऽर्थनया:, एकस्तु शब्दनयः पर्यायास्तिकस्तदा चत्वारो नया:, प्रत्येकं च शतभेदत्वाच्चत्वारि शतानि । कदा द्वे इति ? एको द्रव्यार्थिका, पर्यायार्थिकश्चेति द्वौ, प्रत्येकं च शतभेदत्वाद् द्वे शते, कुत्रापि "णिच्छय-ववहारणया, मूलिमभेदा नयाण सव्वाणं । निच्छयसाहणहेऊ, दव्वय-पजट्ठिया मुणह" ॥१॥ इति । उत्कृष्टतोऽसङ्ख्याता अपि भवन्ति"जावंतो वयणपहा, तातो वा नया विसदाओ । ते चेव य परसमया, सम्मत्तं समुदिया सव्वे" ॥ -[विशेषावश्यकभाष्यगाथा-२२६५] व्याख्या-यावन्तो वचनप्रकारास्तेऽपीहापिशब्दात् सङ्ग भिरूद्वैवम्भूतानां सङ्ग्रहणमिति शब्दनय एक इति मूलनयाश्चत्वारः, प्रत्येकं शतभेदत्वेन चत्वारि शतानि नयानामित्याह-यदेति । मूलनयौ द्रव्यार्थिक-पर्यायार्थिको द्वौ, प्रत्येकं शतविधत्वाद् द्वे शते नयानामित्याह-एको द्रव्यार्थिक इति । निश्चय-व्यवहारभेदत्वेन नयस्य द्वैविध्यम् , प्रत्येकं शतविधत्वे द्वे शते नयानामित्यप्यादेशान्तरमित्याह-कुत्रापीति । णिच्छय० इति-"निश्चय-व्यवहारनयौ मूलभेदौ नयानां सर्वेषाम् । निश्चयसाधनहेतु द्रव्य-पर्यायार्थिको जानीहि" || इति संस्कृतम् । उत्कर्षतोऽसङ्ख्यातभेदत्वमपि नयानामित्याह-उत्कृष्टत इति । जावन्त० इति-"यावन्तो वचनमार्गास्तावन्तो नया अपिशब्दतः। ते एव परसमयाः सम्यक्त्वं समुदिताः सर्वे" || इति संस्कृतम् । उक्तगाथां विवृणोति-यावन्त इति-यावन्तो वचनप्रका

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138