Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 102
________________ बालबोधिनीविवृतिविभूषितं हारः, यथा-देशराज्यकीर्तिदुर्गादि मम ११ । अन्यत्र प्रसिद्धस्य धर्मस्थान्यत्र समारोपणमसद्भूतव्यवहारः १२ । असद्भूतव्यवहार एवोपचारः, य उपचारादप्युपचारं करोति स उपचरितासद्भूतव्यवहारः, यथा-देवदत्तस्य धनमित्यत्र संश्लेषरहितवस्तु लक्षणं प्रतिपत्तव्यम् । उदाहरति-यथेति-देशाधन्तर्गतं जीवविशेषादिकमपीति तदपेक्षया खजातिविषयकत्वं तदन्यापेक्षया विजातिविषयकत्वमिति स्वजाति-विजात्युभयविषयकत्वम् , अन्यत् पूर्ववद् भावनीयम् । द्वादशभेदं लक्षयति-अन्यत्रेति-यद्यपि खजात्यसद्भूतव्यवहारादीनां यान्युदाहरणानि तानि सर्वाण्येवासद्भूतव्यवहारस्योदाहरणानि सम्भवन्ति, यच्चान्यदेव किञ्चिदुदाहरणं परिकल्प्योपदर्शनीयं तदपि स्वजात्यसद्भूतव्यवहारादिलक्षणान्यतमावगुण्ठितमेव तथापि सर्वलोकप्रसिद्धं यद् भारवाहीके गोत्वारोपणम् 'अयं गौः' इति तदस्योदाहरणमवगन्तव्यम् , एवं कुण्डिका स्रवति, पन्था गच्छतीत्यादिकं ज्ञेयम् । त्रयोदशं भेदमुपदर्शयति-असद्भूतेति-'सिंहो माणवकः' इत्यादिरौपचारिकः प्रयोग इति गीयते, तत्रोपचारः क इति पृच्छायां योऽर्य माणवके सिंह इत्येवमसद्भुतव्यवहारः स एवोपचार इत्येवोत्तरं भवति, तदतिरिक्तस्योपचारस्य तत्र वक्तुमशक्यत्वादित्यभिसन्धिः । उपचरितासद्भूतव्यवहारमुदाहरति-यथेति-'देवदत्तस्य धनम्' इत्यत्र कस्मिंश्चिच्छरीरविशेषविशिष्टे पुरुषे देवदत्त इति नामकरणाद् योऽयं देवदत्त इति व्यवहारः स उपचार एव, यतः पुरुषेच्छापरतन्त्रमेव नामकरणं न वस्त्वधीनमिति देवदत्त इति नामकरणवत्, तत्र पुरुषे यज्ञदत्त-भवदत्तादि

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138