Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 103
________________ सप्तभङ्गी नयप्रदीपप्रकरणम् ।। सम्बन्धविषयः१३। संश्लेषसहितवस्तुसम्बन्धविषयोऽनुपचरितासद्भूतव्यवहारः, यथा-जीवस्य शरीरमिति १४ । उपचारोऽपि नवधा, तथाहि-द्रव्ये द्रव्योपचारः१,गुणे गुणोपचारः२, पर्याये नामकरणेऽपि तथा व्यवहियेतैव सः, एवं यस्य स्वत्वं यत्र ब्रीह्यादौ रत्नादौ विद्यादौ वा तस्य तद् धनम् , उदासीनपुरुषापेक्षया तु न तद् धनमिति ब्रीह्यादौ सङ्केतितमेव धनमिति, तथा च ब्रीह्यादौ योऽयं धनमिति व्यवहारः सोऽप्युपचार एव, धनेन सह देवदत्तस्य न संयोगलक्षणसंश्लेष इति संश्लेषरहितरहितस्य धनात्मकवस्तुनः स्वस्खामिसम्बन्धविषयकोऽयं देवदत्तस्य धनमिति भवति उपचरितासद्भूतव्यवहार इत्यर्थः। चतुर्दशभेदमुपदर्शयति-संश्लेषसहितेति । अनुपचरितासद्भूतव्यवहारममुदाहरति-यथेति-'जीवस्य शरीरम्' इत्यत्र न जीव उपचरितः प्राणधारणकर्तृत्वस्य तत्र वस्तुतो भावात् , शीर्यत इति शरीरमिति व्युत्पत्तिलभ्यविनशनशीलत्वरूपार्थस्य काये वस्तुतो घटनान्न शरीरमित्युपचरितं किन्तु जीवस्य सुखदुःखाद्युपभोगेऽवच्छेदकविधया कारणत्वेन सहकारिभूते शरीरे जीवस्य सम्बन्धः कल्प्यत एव न वस्तुतः सम्बन्धोऽस्तीत्यतोऽसद्भूतव्यवहारोऽयं शरीरेण सहान्योऽन्यानुविद्धतया संयोगलक्षणसंश्लेषो विद्यत इति संश्लेषसहितं यच्छरीरलक्षणं वस्तु तत्सम्बन्धविषयकोऽयमिति भवति संश्लेषसहितवस्तुसम्बन्धविषयोऽनुपचरितासद्भूतव्यवहार इत्यर्थः । असद्भूतव्यवहारविषयस्योपचारस्य नवविधत्वमुपदर्शयति-उपचारोऽपि नवधेति । तानेव नव प्रकारानुल्लिखति-तथाहीति-द्रव्ये

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138