Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 104
________________ बालबोधिनीविवृतिविभूषितं पर्यायोपचारः ३, द्रव्ये गुणोपचारः ४, द्रव्ये पर्यायोपचारः ५, गुणे द्रव्योपचारः ६, गुणे पर्यायोपचारः ७, पर्याये द्रव्योपचारः ८, पर्याये गुणोपचारः ९, सर्वोऽप्यसद्भूतव्यवहारस्याओं द्रष्टव्यः, अत एवोपचारः पृथग नयो न भवतीति । मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । सोऽपि सम्बन्धोऽवि द्रव्योपचारो यथा-जीवः पुद्गल इति, गुणे गुणोपचारो यथा-ज्ञान मूर्तिरिति, पर्याये पर्यायोपचारो यथा-नडुलोदकं पादरोग इति, द्रव्ये गुणोपचारो यथा-आत्मा ज्ञानमिति, द्रव्ये पर्यायोपचारो यथा-आत्मा मनुज इति, मृद् घट इति, गुणे द्रव्योपचारो यथा-ज्ञानमात्मेति, गुणे पर्यायोपचारो यथा-ज्ञानं मतिरिति, पर्याये द्रव्योपचारो यथा-घटादिमृद् द्रव्यमिति, पर्याये गुणोपचारो यथा-मत्यादि ज्ञानमिति । सर्वोऽपि नवविधोऽप्युपचारः । अर्थः विषयः । अत एव उपचारस्यासद्भूतव्यवहारेऽन्तर्भावादेव । पृथग् नयः व्यवहारनयाद् भिन्नो नयः । उपचारप्रवृत्तिं नियमयति--मुख्याभाव इति-यत्र मुख्योऽर्थो न घटते उपचाराश्रयणे किञ्चित्प्रयोजनं च विद्यते, यस्य यत्रोपचारस्तयोः कश्चित् सम्बन्ध उपचारनिमित्तभूतः समस्ति तत्रोपचारः प्रवर्तते इत्यर्थः । संश्लेषरहितवस्तुसम्बन्धविषय उपचरितासद्भूतव्यवहार उक्तः, संश्लेषसहितवस्तुसम्बन्धविषयोऽनुपचरितासद्भूतव्यवहार उक्तः, तत्र सम्बन्धः क इत्यपेक्षायामाह-सोऽपीति-उपचारंनिमित्त उपचारविषयीभूतो वाऽपीत्यर्थः । अविनाभाव इति-गुणे द्रव्योपचारो द्रव्ये गुणोपचारो वा यत्र तत्र द्रव्य-गुणयोः सहभावित्वादविनाभावः सम्बन्धः, एवं कृतकर्मनित्यमित्युपर्यते, अनित्यं च कृतकमिति तत्र कृतकानित्ययोर

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138