Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 106
________________ बालबोधिनी विवृतिविभूषितं - इदानी पर्यायार्थिकस्य चतुर्भेदप्ररूपणायां तावदृजुसूत्रं विवेचयन्ति-"ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः" इति ॥ -[प्रमा० परि० ७ सूत्रम्-२८] एतस्यार्थः-भूत-भविष्यद्वर्तमानक्षणलवविशिष्टलक्षणकौटिल्यविविक्तत्वाद् ऋजु सरलमेव सूत्रयति-द्रव्यस्थाप्राधान्यतया सङ्ग्रहादस्य सर्वथा भेद इत्यनेनावेदितम् । व्यवहारनयनिरूपणपरिसमाप्त्या द्रव्यार्थिकनयनिरूपणपरिसमाप्ति सूचयति-इतीति । इति व्यवहारनिरूपणम् ॥ इति द्रव्यार्थिकनयनिरूपणम् ।। अथ पर्यायार्थिकनयनिरूपणे, ऋजुसूत्रनयनिरूपणम्-ऋजुसूत्र-शब्द-समभिरूद्वैवम्भूतभेदात् पर्यायार्थिकनयश्चतुर्धा, तत्रार्थनयत्वेन व्यवहारनयसजातीयत्वात् प्रथममृजुसूत्रनयनिरूपणमधिकरोतिइदानीमिति-द्रव्यार्थिकनयनिरूपणानन्तरकाल इत्यर्थः । ऋजुसूत्रस्य निरुक्तिबललभ्यस्वरूपमुपदर्शयति-ऋज्विति । अस्यैवार्थकथनम्-- वर्तमानक्षणस्थायिपर्यायमात्रमिति । 'सूत्रयन्' इत्यस्य प्राधान्यत इति विशेषणोपादानाद् गौणतया द्रव्यमभ्युपैति न तु तत् प्रतिक्षिपति, तथा सति नयाभासता प्रसज्येतेति । ऋजुसूत्रस्यानन्तरोपदर्शितनिरुक्तिप्रपञ्चवाक्यस्यार्थमावेदयति-~एतस्यार्थ इति । भूतेति-भूत-भविष्यकालवैशिष्ट्यमेव यद्यपि कौटिल्यं तथापि भूत-भविष्यत्कालमध्यवर्तित्वेन वर्तमानकालवैशिष्ट्यमपि कौटिल्यमित्यभिसन्धाय भूत-भविष्यद्वर्तमानक्षणलवविशिष्टलक्षणत्वं कौटिल्यस्याभिहितम् । 'सूत्रयति' इत्यस्य

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138