Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 98
________________ . 20 बालबोधिनीविवृतिविभूषितं आंदकथनं शुद्धसद्भूतव्यवहारः २ । सोपाधिगुण-गुणिनोर्मेदविषय उपचरितसद्भूतव्यवहारः, यथा-जीवस्य मतिज्ञानादयो गुणाः३। निरुपाधिगुण-गुणिनोर्भेदकोऽनुपचरितसद्भूतव्यवहारः, यथा आत्मनो ज्ञानादयो गुणाः, आत्मनः पर्याया गत्यादय इति; एवं पुद्गलस्य रूपादयो गुणाः, मृदादयः पर्याया इत्युदाहरणम् , गुण-पर्याययोर्भेदं दिगम्बरोऽभ्युपगच्छति तेन शुद्धस्य गुणस्य शुद्धस्य पर्यायस्य च द्रव्येण सह भेदकथनरूपत्वाद् भवति शुद्धसद्धृतव्यवहार इति, अनुपचरितसद्भूतव्यवहारो गुण-गुणिनोरेव भेदकः, अयं च द्रव्य-पर्याययोरपीत्यधिकविषयकत्वात् तस्मादयं भिद्यत इति, अत्राप्युदाहरणं सुगमावबोध्यत्वान्नोट्टङ्कितम् । ___ तृतीयभेदं लक्षयति--सोपाधिगुण-गुणिनोरिति । उदाहरतियथेति-प्राणधारणविशिष्टात्मनो जीवत्वमिति 'जीवस्य' इति सोपाधिद्रव्यग्रहणम् , सावरणमेव मतिज्ञानाद्यावरणक्षयोपशमविशेषसमुत्थं ज्ञानं मतिज्ञानादिवाच्यमिति मतिज्ञानादयः' इत्यनेन सोपाधिगुणग्रहणम् , सोपाधित्वादेव चानयोरुपचरितत्वमिति भवति जीवस्य मतिज्ञानादयो गुणा इति सोपाधिगुण-गुणिभेदविषय उपचरितसद्भूतव्यवहारः, अशुद्धसद्भूतव्यवहारेऽशुद्धद्रव्य-पर्याययोर्भेदोऽपि विषयः, न चात्र तथेति ततोऽस्य न्यूनविषयत्वाद् भेद इति । . ___चतुर्थभेदं लक्षयति-निरुपाधीति । उदाहरति यथेति- केवलज्ञानादयो गुणाः' इति स्थाने 'केवलज्ञानादय आत्मनो गुणाः' इति पाठो युक्तः, यद्यपि ग्रन्थान्तरे शुद्धसद्भूतव्यवहारस्योदाहरणं 'केवलज्ञाना. दयो जीवस्य' इत्युक्तं तथापि तत्र जीवपदमात्मपरमेव बोध्यम् , अस्य

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138