Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 99
________________ सप्तभङ्गी नयप्रदीपप्रकरणम् । केवलज्ञानादयो गुणाः ४ । अशुद्धगुण-गुणिनोरशुद्धद्रव्यपर्याययोर्भेदकथनमशुद्धसद्भूतव्यवहारः ५ । स्वजात्यसद्भूतव्यवहारः, यथा-परमाणुबहुप्रदेशीति कथनम् ६ । विजात्यसद्भूतव्यवहारः, यथा-मूर्तिमन्मतिज्ञानं मूर्तजनितत्वात् ७ । उभया निरुपाधिगुण-गुणिभेदमात्रविषयकत्वेन शुद्धपर्याय-द्रव्ययोरपि भेदकथनात्मकाच्छुद्धसद्भूतव्यवहाराद् भेद इति । पञ्चमभेदं लक्षयति-अशुद्धगुण-गुणिनोरिति-अस्याशुद्धद्रव्यपर्याययोरपि भेदस्य बोधकत्वेनोपचरितसद्भूतव्यवहाराद् भेदः, उदाहरणम्-जीवस्य मतिज्ञानादयो गुणाः, मनुजादयः पर्याया इति । षष्ठं भेदमुपदर्शयति-खजात्यसद्भूतव्यवहार इति, द्वादशभेदमसद्भूतव्यवहारमग्रे लक्षयिष्यति, अन्यत्र प्रसिद्धस्य धर्मस्थान्यत्र समारोपणसद्भूतव्यवहार इति तदेव सामान्यलक्षणं किञ्चिद् विशेषमुपादाय षष्ठादिभेदानामपि भविष्यतीत्यभिसन्धाय लक्षणं नाभिहितम् , तथा च स्वजातिविषयकं यद् अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणं स स्वजात्यसद्भूतव्यवहार इत्यर्थः । उदाहरति यथेति-'परमाणुबहुप्रदेशी' इत्यत्र बहुप्रदेशिभिन्ने परमाणौ बहुप्रदेशित्वस्य समारोपणमस्ति, परमाणु-बहुप्रदेशिनोः पुद्गलत्वेन साजात्यमस्तीति स्वजातिविषयकोऽयमिति भवति स्वजात्यसद्भूतव्यवहार इत्यर्थः। सप्तमं भेदमुपदर्शयति-विजात्यसद्भूतव्यवहार इति-विजातिविषयकं यद् अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणं स विजात्यसद्भूतव्यवहार इत्यर्थः । उदाहरति-यथेति-'मूर्तिमद् मतिज्ञानम्' इत्यत्र मूर्तिमत्पुद्गलभिन्ने मतिज्ञाने मूर्तजनितत्वहेतुतो मूर्तिमत्त्वस्य पुद्गले ६ सप्तभन्नी

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138