Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 90
________________ ૭ર बालबोधिनी विवृतिविभूषितं तदाभासलक्षणमाह-"द्रव्यत्वादिकं प्रतिजानानः तद्विशेषानिढुवानस्तदाभास" -[प्रमा० परि० ७ सूत्रम्-२१] “यथा-द्रव्यत्वमेव तत्त्वम्" इति, -[प्रमा० परि० ७ सूत्रम्-२२] नास्ति च धर्मादि द्रव्यमित्यपह्नवः, यथा-वस्तु वर्तते परं सामान्यविशेषत्वं क्व वर्तत इत्यपह्नवः । एवं सामान्यविशेषात्मनो वस्तुनो द्रष्टव्यम्। अथवा सङ्ग्रहः सामान्य-विशेषाभ्यां द्विधा,सामान्यसङ्ग्रहोदानेति-अत्र 'पर्यायत्वेन' इति पाठो युक्तः, चैतन्याचैतन्ययोः पर्यायरूपतया पर्यायत्वेनाभेदबुद्धेरेव विवक्षणात् , पर्यायत्वसाधादेव च चैतन्याचैतन्यपर्यायाणामैक्यमिति ज्ञानस्यापरसङ्ग्रहत्वं प्रस्तुतमपीति बोध्यम् । प्रसङ्गादपरसङ्ग्रहाभासलक्षणं विचारपद्धतिमानयति-तदाभासलक्षणमाहेति-अपरसङ्घहाभासलक्षणं कथयतीत्यर्थः । 'द्रव्यत्वादिकम्' इत्यत्रादिपदाद् गुणत्वादेग्रहः । तद्विशेषान् द्रव्यविशेषान् धर्माधर्मादीन् । तदाभासः अपरसङ्ग्रहाभासः । उदाहरति-यथेति । 'द्रव्यत्वमेव' इत्येवकारेण धर्मत्वादेर्व्यवच्छेदः। धर्माद्यपह्नवस्वरूपमुल्लिखति-नास्ति चेति । सामान्यविशेषत्वस्याप्याधेयभावेनापह्नवोऽपरसङ्ग्रहाभास एवेत्याह-यथेति । सामान्यविशेषो द्रव्यत्वादिकं समस्ति, न च तत् कुत्रापि वर्तते सामान्यविशेषात्मनो वस्तुधर्मिणोऽभावादित्येवमपह्नवोऽप्यपरसङ्ग्रहाभास इत्याह--एवमिति । सामान्यसङ्ग्रहो विशेषसङ्ग्रहश्चेत्येवं वा सङ्ग्रहस्य द्वैविध्यमित्याहअथवेति । क्रमेण सङ्ग्रहद्वयमुदाहरणद्वारा भावयति--सामान्यसनहोदाहरणमिति । इति सनहनयनिरूपणम् ॥

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138