Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 89
________________ सप्तभङ्गी नयप्रदीपप्रकरणम् । सगृह्यते । धर्मादिविशेषभेदेषु च गजनिमीलिकावदुपेक्षा। एवं चैतन्याऽचैतन्यपर्यायाणामैक्यं पर्यायत्वसाधात् । चैतन्य ज्ञानम् "चैतन्यमनुभूतिः स्यात् सक्रियारूपमेव च । क्रिया मनो-वच:-कायैरन्विता वर्तते ध्रुवम्" ॥१॥ तद्विपरीतमचैतन्यम्, तयोरैक्यं कथमिति विशेषविवक्षानाकाङ्क्षणमुपेक्षा द्रव्यत्वेनाभेदबुद्धिविवक्षणात् । 'धर्मादीनामैक्यं द्रव्यत्वाभेदाद्' इति ज्ञाने यतः । यथा द्रव्यत्वाभेदाद् धर्मादीनामैक्यमिति ज्ञानमपरसङ्ग्रहस्तथा चैतन्याचैतन्यपर्यायाणामैक्यं पर्यायत्वाभेदादित्यपि ज्ञानमपरसङ्ग्रह इत्याह-एवमिति । चैतन्य ज्ञानम् , अज्ञानमचैतन्यम् , ततो ज्ञानाज्ञानयोरैक्यं कथमिति विशेषानाकाहालक्षणोपेक्षवात्र, तेन पर्यायत्वसाधादैक्यज्ञानं सम्भवत्येवेत्याहचैतन्यं ज्ञानमिति । चैतन्यस्य ज्ञानरूपत्वे प्राचां वचनं प्रमाणयतिचैतन्यमनुभूतिः स्यादिति-अनुभूतिरनुभवात्मकं ज्ञानमिति ज्ञानरूपता चैतन्यस्य । आत्मनो वस्त्वनुभवलक्षणक्रियारूपमेव चैतन्यमित्याहसक्रियारूपमेव चेति । वस्वनुभवकाले क्रिया वर्तते चेत् क्रियारूपत्वं तस्याभ्युपगन्तुमुचितम् , न च तदानी क्रिया काऽपि दृश्यत इति कथं सक्रियारूपत्वमित्यत आह—क्रियेति-यदा किमप्यनुभवति तदा मनो-वचः-कायैः कामपि क्रियां कुर्वन्नेवास्ते नहि निश्चेष्ट एव किमप्यनुभवतीति, अनुभवनमपि मानसी क्रियैवेति क्रियारूपत्वं चैतन्यस्यावश्यकमिति । तद्विपरीतं ज्ञानविपरीतमज्ञानमिति यावत् । तयोः ज्ञानाज्ञानखरूपयोश्चैतन्याचैतन्ययोः । कथमुपेक्षेत्यत आह-द्रव्यत्वे

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138