Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 93
________________ सप्तभङ्गी-नयप्रदीपप्रकरणम् । ७५ नास्तिको हि जीवद्रव्यादि भिमन्यते, स्थूलदृष्ट्या च भृतचतुष्टयं यावदृष्टिगोचरमिति खकल्पितत्वेनातथात्वाद् व्यवहारामासमिति ॥ अथ कतिपयमन्यतो लिख्यते-भेदोपचारतया वस्तु व्यवहियत इति व्यवहारः । गुण-गुणिनोः, द्रव्य-पर्याययोः, संज्ञासंज्ञिनोः, स्वभाव-तद्वतोः, कारक-तद्वतोः, क्रिया-तद्वतोभैंदाद् MAM व्यवहाराभासत्वमित्याह-नास्तिको हीति । 'याददृष्टिगोचरम्' इत्यनन्तरमभिमन्यत इत्यनुषज्यते । भूतचतुष्टयवादस्य चार्वाकेण स्वयं कल्पितत्वेनापारमार्थिकत्वादित्याह-स्वकल्पितत्वेनातथात्वादिति । श्वेताम्बराभिमतव्यवहार-तदाभासस्वरूपप्ररूपणां परिसमाप्य दैगम्बरी प्रक्रियामाश्रित्य व्यवहारस्वरूपं तद्भेदांश्योपदर्शयितुमाह-अथेतिस्वसैद्धान्तिकाभिमतव्यवहार-तदाभासस्वरूपोपदर्शनानन्तरमित्यर्थः । कतिपयमिति-अनन्तराभिधीयमानप्रकारेण व्यवहारभेदोपदर्शने बहवो भेदा विषयभेदप्रयुक्ता व्यवहारस्य सम्भवन्ति, तन्मध्यात् कतिपयसङ्ख्याकं लौकिकपरीक्षकबुद्धिग्राह्य व्यवहारनयभेदप्रपञ्चनम् । अन्यतः दिगम्बरअन्थात् । लिख्यते दिगम्बरग्रन्थे यथैवाभिहितमस्ति तथैवोल्लिख्यते, न तु स्वयमत्र क्षोदक्षमाकलितो विचारः क्रियते, तेनास्य गुण-दोषाभ्यां न किश्चिन्ममेत्यावेदितम् । दिगम्बरस्तु-द्रव्यार्थिक-पर्यायार्थिक-नैगम-सङ्ग्रह-व्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूतभेदेन नयानां नवविधत्वम्, तत्र कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिकः १, उत्पाद-व्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिकः

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138