Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 92
________________ ७४ बालबोधिनीविवृतिविभूषितं अपरसङ्ग्रहगृहीतार्थव्यवहारस्याप्युदाहरणमादिपदालक्ष्यम् , यथा-यद् द्रव्यं तज्जीवादि षड्विधमिति, पर्यायो द्वेधा-क्रमभावी सहभावी चेति, एवं जीवा मुक्ताः संसारिणश्च, ये क्रमभाविनः पर्यायास्ते क्रियारूपा अक्रियारूपाश्चेति । अथ व्यवहाराभासं लक्षयन्ति- "यः पुनरपारमार्थिकं द्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभास" -[प्रमा० परि० ७ सूत्रम्-२५] “यथा-चार्वाकदर्शनम्” इति । --[ प्रमा० परि० ७ सूत्रम्-२६ ] इत्यादिपदादपरसङ्ग्रहगृहीतार्थव्यवहारस्वाप्युदाहरणं ग्राह्यमित्याह-अपरसङ्ग्रहेति । उदाहरति--यथेति । यद् द्रव्यं तद् जीवादिषड्विधमिति व्यवहारोदाहरणं तु धर्मा-ऽधर्मा-ऽऽकान-काल-पुद्गल-जीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यपरसङ्ग्रहगृहीतार्थस्ये : बोध्यम् । पर्यायाणामैक्यं पर्यायत्वसाधादित्यपरसग्रहगृहीतार्थस्य व्यवहारस्योदाहरणम्-पर्यायो द्वेधा क्रमभावी सहभावी चेति । जीयानामैक्यं जीवत्वसाधादित्यपरसङ्ग्रहगृहीतार्थस्य व्यवहारस्योदाहरणम्-जीवा मुक्ताः संसारिणश्चेति । क्रियाऽक्रियारूपपर्यायाणक्यं क्रमभाविपर्यायत्वसाधादित्यपरसग्रहगृहीतार्थस्य व्यवहारस्यो हरणम् –ये क्रमभाविनः पर्यायास्ते क्रियारूपा अक्रियारूपाश्चति । प्रसङ्गाद् व्यवहाराभासलक्षणनिर्वचनमधिकरोति-अथेति । चार्वाकदर्शनस्य पारमार्थिकजीवादिद्रव्यविभागाभ्युपगन्तृत्वाभावादपारमार्थिकयावदृष्टिगोचरपृथिव्यादिचतुष्टयभूतविभजनाभ्युपगन्तृत्वाद

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138