Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 80
________________ १२ वालबोधिनीविवृतिविभूषितं रूपतया वस्तुव्यवहरणं व्यवहारद्रव्यार्थिकः । नैगम-व्यवहारौ चाशुद्धद्रव्यानुभविकत्वेनाशुद्धौ, सङ्ग्रहः शुद्धद्रव्यवादित्वाच्छुद्धः, तदुक्तमनुयोगद्वारवृत्तौ [मू० ७२]- "नैगम-व्यवहाररूपोऽविशुद्धः, सङ्ग्रहरूपस्तु विशुद्धः कथम् ?, यतो नैगम-व्यवहारावनन्तपरमाण्वनन्तद्व्यणुकाधनेकव्यक्त्यात्मकं कृष्णायनेकगुणाधारं त्रिकालविषयं चाविशुद्धं द्रव्यमिच्छतः, सङ्ग्रहश्च परमाण्वादिकं परमाण्वादिसामान्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्य भेदरूपतया विशेषरूपतया । वस्तुव्यवहरणं सामान्य विशेषरूपतयैव वस्तु इति व्यवहरणम् । यद्यपि नैगम-सङ्ग्रह-व्यवहारास्त्रयोऽपि द्रव्यविषयकत्वाद् द्रव्यार्थिकास्तथापि सर्वानुगतत्वान्महासामान्यमेव शुद्धद्रव्यमिति तद्विषयकः सङ्ग्रहः शुद्धद्रव्यार्थिकः, नैगमविषयोऽवान्तरसामान्य व्यवहारविषयश्च द्रव्यत्व-पृथिवीत्व-घटत्वादिरन्यव्यावृत्तत्वात् पर्यायोsपीत्यशुद्धद्रव्यम् , तद्विषयकत्वान्नैगमव्यवहारावशुद्धद्रव्यार्थिकावित्याहनैगम-व्यवहाराविति । नैगम-व्यवहारयोरशुद्धत्वे सङ्घहस्य च शुद्धत्वेऽनुयोगद्वारवृत्तिसंवादमुपदर्शयति-तदुक्तमिति । नैगम-व्यवहारयोः कथमशुद्धत्वमिति पृच्छति-कथमिति । उत्तरयति-~-यत इति'नैगम-व्यवहारावशुद्धं द्रव्यमिच्छतः' इत्यन्वयः, अनन्तपरमाण्वाद्यनेकव्यक्त्यात्मकत्वादिकमेव द्रव्येऽविशुद्धत्वम् । नित्यसामान्यात्मकैकदव्यस्य शुद्धत्वेन तदभ्युपगन्तृत्वात् सङ्ग्रहस्य शुद्धत्वमित्याह-सनहवेति-अस्य 'इच्छति' इत्यनेनाऽन्वयः । नित्यैकसामान्यरूपद्रव्य

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138