Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 82
________________ ६४ बालबोधिनीविवृतिविभूषितं धर्मिद्वयगोचरः धर्म-धर्मिगोचरः, अत्र धर्मिधर्मशब्देन द्रव्यं व्यञ्जनपोयं च वदन्ति । अथाघोदाहरणमाह--"सच्चैतन्यमात्मनि" इति । -[ प्रमाण परि० ७ सूत्रम्-८] अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वाद् मुख्यतया विवक्षणम्, सत्वाख्यव्यञ्जनपर्यायस्य तु विशेषणत्वादमुख्यतयेति धर्मद्वयगोचरो नैगमः प्रथमः । द्वितीयोदाहरणमाह-"वस्तु पर्यायवद्रव्यम्" ॥ ---[प्रमाण परि० ७ सूत्रम्-९] अत्र पर्यायवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम् , वस्त्वारख्यस्य तु धर्मिणो विशेषणत्वेनाप्राधान्यमिति धर्मिद्वयगोचरो नैगमो द्वितीयः। अथ तृतीयोदाहरणम्---"क्षणमेकं सुखी विषयासक्तजीवः"। इति । -[प्रमाण० परि० ७ सूत्रम्-१०] . अत्र हि विषयासक्तजीवस्य द्रव्यस्य विशेष्यत्वात् प्राधान्यम् , धर्मद्वयगोचरत्वमुक्तम् । अत्र 'वस्तु पर्यायवद्र्व्यम्' इति धर्मिद्वयगोचरनैगमे । 'पर्यायवद्र्व्यम्' इत्यत्र पर्यायाख्यधर्मस्य विशेषणत्वेन विषयत्वं यद्यपि समस्ति तथापि तस्य विशेषणत्वे न निर्भरः किन्तु पर्यायवद्रव्यस्य विशिष्टस्यैव धर्मिणो विशेष्यत्वम्, तत्र तादात्येन वस्तुरूपधर्मिणो विशेषणत्वमिति विवक्षयैव धर्मिद्वयगोचरत्वमस्याभिमतम् । अत्र हि 'क्षणमेकं सुखी विषयासक्तजीवः' इति धर्म-धर्मिगोचरनैगमे

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138