Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 81
________________ ६३ सप्तभङ्गी-नयप्रदीपप्रकरणम् । मिच्छति, एतच्च किलानेकताद्यभ्युपगमकलङ्केनाऽकलङ्कितत्वाच्छुद्धम् , ततः शुद्धद्रव्याभ्युपगमपरत्वादयमेव शुद्धः" इति ॥ अथ नैगमनयं प्ररूपयन्ति नैके गमा बोधमार्गा यस्यासौ नैगमो नाम नयः स्यात्, पृषोदरादित्वात् ककारलोपः । स त्रेधा-धर्मद्वयगोचरः, ग्रहणस्य कथं शुद्धत्वमित्यपेक्षायामाह-एतच्चेति-अनन्तरोपदर्शितद्रव्यस्वरूपग्रहणं चेत्यर्थः । सङ्ग्रहस्यैव शुद्धत्वमुपसंहरति-तत इति ।। अथ नैगमनयनिरूपणम्सामान्यतो नैगमस्वरूपं प्ररूपितमपि शिष्याणां विशेषतस्तत्वरूपप्रतिपत्तये पुनस्तन्निरूपणमधिकरोति-अथेति । 'नके गमाः' इत्यादिनिरुत्याश्रयणेन नैकगम इति स्यान्न तु नैगम इत्यत आह-पृषोदरादित्वादिति-पृषतो मत्स्यस्योदरमिवोदरं यस्येति विग्रहेऽपि पृषोदर इत्येव भवति न तु पृषदुदर इति, तत्र तकारलोपाद् यथा पृषोदर इति तथा तद्गुण पाठादत्र ककारलोपे 'नैगमः' इति भवति साधुरित्यर्थः। नैगमनयस्य त्रैविध्यं दर्शयति–स त्रेधेति । स नैगमः । अत्र नैगमप्रकारे । अत्र 'सच्चैतन्यमात्मनि' इति धर्मद्वयगोचरनैगमे । 'आत्मनि' इति सप्तम्यन्तेन आत्मन आधेयतया सत्ताविशिष्टचैतन्ये प्रकारत्वाद् गौणत्वम्, सत्त्वरूपधर्मस्यापि सामानाधिकरण्यसम्बन्धेन चैतन्यरूपधर्मे विशेषणत्वान् गौणत्वम् , चैतन्यस्य च विशेष्यत्वान्मुख्यत्वम् , चेतनश्चेतन इति शब्दप्रवृत्तिनिमित्तत्वाच्चैतन्याख्यधर्मस्य व्यञ्जनपर्यायत्वम्, सत्त्वाख्यधर्मस्थापि सत् सदिति शब्दप्रवृत्तिनिमित्तत्वाद् व्यञ्जनपर्यायत्वमिति, यद्यपि सत्वस विशेषणत्वं तथाऽप्यात्मापेक्षया विशेष्यत्वमिति वैशिष्ट्यसद्भावाद

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138