Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 77
________________ सप्तभङ्गी नयप्रदीपप्रकरणम् । अथ सप्तनयसङ्ख्यामाह-अयो द्रव्यार्थिकनयः, तस्य त्रयो मेदाः-नैगम-सङ्ग्रह-व्यवहारभेदात् । द्वितीयः पर्यायार्थिकनयः, तस्य ऋजुसूत्र-शब्द-समभिरूद्वैवम्भूतनयभेदाचत्वारो भेदाः। तदुभयोभैदसङ्ग्रहे च सप्तैव नयाः । "पञ्चैव नयाः, षडेव नयाः, चत्वार एव मूलनया" प्रवचनसारोद्धारवृत्तौ [१२४ द्वारे] । ranmmms WM अथ नयसङ्ख्यानिरूपणम् अथ द्रव्यार्थिकनयस्त्रिविधः, पर्यायार्थिकनयश्चतुर्विधः, तयोर्मेलने सप्त नया भवन्तीत्येवं सङ्ख्यामुपदर्शयति-अथेति । तस्य व्यार्थिकनयस्य । नैगमेति नैगमः सङ्ग्रहो व्यवहारश्चेत्येवं द्रव्यार्थिकनयस्य त्रयो भेदा इत्यर्थः । तस्य पर्यायार्थिकनयस्य, अस्य चत्वारो भेदाः' इत्यनेनान्वयः, ऋजुसूत्रः शब्दः समभिरूढ एवम्भूत इत्येवं पर्यायार्थिकनयस्य चत्वारो भेदा इत्यर्थः । तदुभयोः द्रव्यार्थिक-पर्यायार्थिकयोः । भेदसङ्ग्रहे भेदानां त्रयाणां चतुर्जा विशेषाणां सङ्ग्रहे मेलने । द्रव्यार्थिकस्य पूर्वोक्तास्त्रयो भेदाः, पर्यायार्थिकस्य ऋजुसूत्र-शब्दौ, शब्दत्वेन शब्द-समभिरूदैवम्भूतानां ग्रहणमिति तत्सङ्ग्रहे पञ्चैव नया इत्याह । नैगमस्य सामान्यग्राहिणः सङ्ग्रहे विशेषग्राहिणस्तस्य व्यवहारेऽन्तर्भाव इति नैगमनयोऽतिरिक्तो नास्तीति द्रव्यार्थिकस्य द्वौ भेदौ, पर्यायार्थिकस्य यथोक्ता ऋजुसूत्रादयश्चत्वारो भेदा इति तत्सङ्ग्रहे षडेव नया इत्याह । अथवा द्रव्यार्थिकस्य सङ्ग्रह-व्यवहारौ द्वौ भेदौ, पर्यायार्थिकस्य ऋजुसूत्र-शब्दौ, शब्दे च शब्दादीनां त्रयाणामन्तर्भावः, तयोः सझन्हे

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138