Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् । सदृक् शुद्धात्मा ५, कर्मोपाधिसापेक्षखभावोऽप्यनित्याशुद्धपर्यायार्थिका, यथा-संसारिणामुत्पत्ति-मरणे स्तः ६, इति पर्यायार्थिकस्य षड् भेदाः॥
अथ तयोः स्थानप्रधानमाह-द्रव्यास्तिकनयो हि नित्यस्थानमेवाह, द्रव्यस्य नित्यत्वात् सकलकालभावित्वाच्च । पर्यायार्थिकस्त्वनित्यमेव स्थानमाह, पर्यायाणामनित्यत्वात् प्रायशः । तदुक्तं राजप्रश्नीयवृत्तौ---
पर्यायार्थिकं षष्ठं भेदमाह-कर्मोपाधीति । उदाहरति-यथेति-जीवस्याऽनादिनिधनस्वभावस्योत्पत्तिमरणे कार्मणशरीरसम्बन्धकृते इति कर्मोपाधिसापेक्षस्वभावत्वम् , विभिन्नकालीनयोरुत्पत्ति-मरणयोरेकत्र विधानं नानुगामिद्रव्यमन्तरेणेति तथाभूतद्रव्यसम्बन्धादशुद्धतेति तथाग्राहिणो ज्ञानस्य विषयनिबन्धनं कर्मोपाधिसापेक्षस्वभावत्वमनित्याशुद्धपर्यायार्थिकत्वं चेति बोध्यम् । उपसंहरति-इति पर्यायार्थिकस्य षड् भेदा इति । ___ स्थाने तयोर्मन्तव्यभेदमुपदर्शयति-अथेति । तयोः द्रव्यार्थिकपर्यायार्थिकनययोः । द्रव्यास्तिकस्य नित्यं द्रव्यमेव विषयस्तस्य त्रिकालावस्थानादिति स्थानमवस्थानमेतन्नये नित्यमित्याह-द्रव्यास्तिकनयो हीति । पर्यायास्तिकनयविषयस्य पर्यायस्य बहुधाऽनित्यत्वात् , केषाञ्चित् पर्यायाणां सिद्धत्वादीनामुत्तरकाले सर्वदाऽवस्थानेऽपि पूर्वकालेऽवस्थानाभावादशुद्धपर्यायस्य नित्यत्वस्यौपाधिकस्य सम्भवेऽपि शुद्धपर्यायस्य नित्यत्वासम्भवात् तत्स्थानमनित्यमित्याह-पर्यायार्थिकस्त्विति । द्रव्यास्तिकस्य नित्यस्थानाभ्युपगमः पर्यायास्तिकस्याऽनित्यस्थानाभ्युपगम इत्यत्र राजप्रश्नीयवृत्तिसंवादमुपदर्शयति-तदुक्तमिति । द्रव्यातिकनये स्थानख

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138