Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 73
________________ M सप्तभङ्गी नयप्रदीपप्रकरणम् । "अण्णोण्णं पविसंता दिता ओगास अण्णमण्णस्स । मेलंता वि अ णिचं सगसगभावं न विजहंति" ॥ स्वभावभेदोऽग्रे वक्ष्यते । ननु द्रव्य-पर्यायव्यतिरिक्तौ सामान्यविशेषौ विद्यते तत् कथं न सामान्यार्थिक-विशेषार्थिकनामानौ नयौ भवतः १ इति चेत्, न-द्रव्य-पर्यायव्यतिरिक्तसामान्य- विशेषाप्रसिद्धेः, तद् यथा, प्रसङ्गात् सामान्यं दर्शयति-- __ "सामान्यं द्विधा-एकं तिर्यक्सामान्यमपरमूर्खतासामान्यम्" ॥ -[ प्रमाण० परि० ५ सू० ३] आद्यलक्षणमाह--- खभावविशेषैरन्योन्यं मिलन्ति ते ? इत्यपेक्षायामाह-स्वभावभेदोऽग्रे वक्ष्यत इति । ननु यथा द्रव्यविषयकत्वाद् द्रव्यार्थिकः पर्यायविषयकत्वात् पर्यायार्थिकस्तथा सामान्यविषयकत्वात् सामान्यार्थिको विशेषविषयकत्वाद् विशेषार्थिकोऽपि नयः किं न स्यात् ? न च सामान्यविशेषौ धर्मस्वरूपौ धर्मिणोर्द्रव्य-पर्याययोरन्तर्भवत इत्याशङ्कतेनन्विति । सामान्य-विशेषयोर्द्रव्य-पर्याययोरेवान्तर्भावान व्यतिरिक्तौ सामान्य-विशेषौ स्त इति न तद्राहिणौ नयावप्यतिरिक्ताविति समाधत्ते-नेति । सामान्य-विशेषयोः स्वरूपनिरूपणे सत्येव तयोर्द्रव्य-पर्याययोरन्तर्भावो ज्ञातुं शक्य इति तौ निरूपयितव्यौ, तत्र प्रथमोपस्थितत्वात् प्रथमं सामान्यं निरूपयति-प्रसङ्गादिति । अनुगतप्रतीतिनिबन्धनत्वं सामान्यस्य लक्षणमन्यवादिनोऽप्यभिमतमतस्तद्विभागमेवावेदयतिसामान्यं द्विधेति । परसामान्यमपरसामान्यमित्येवमतिरिक्तसामान्यवादिनोऽभिमतं द्वैविध्यं न स्याद्वादिनोऽभिमतं किन्तु तिर्यक्सामान्यमेकमपरं चोर्ध्वतासामान्यमित्येवं द्वैविध्यमित्याह-एकमिति । आधलक्षणमाह

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138