Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 74
________________ ५६ 'बालबोधिनीविवृतिविभूषितं " प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यम्, यथा-शबलशाबलेयपिण्डेषु गोत्वम् " ॥ इति । -- [ प्रमाण० परि० ५ सू० ४ ] www तिर्यक्सामान्यं च गवादौ गोत्वादिस्वरूपतुल्यपरिणतिरूपम्, उदाहरणं च-तजातीय एवायं गोपिण्डो वा गोसदृशो गवय इति वा । द्वितीयलक्षणमाह "पूर्वापरपरिणामसाधारणद्रव्यमूर्ध्वतासामान्यम्, यथाकटक - कङ्कणाद्यनुगामि काञ्चनम् " || इति । -- [ प्रमाण० परि० ५ सू० ५ ] तिर्यक्सामान्यलक्षणं कथयति । प्रतिव्यक्तीति यादृशी परिणतिरेकगोव्यक्तस्तादृश्येव परिणतिर्गवान्तरव्यक्तेरपीति व्यक्तीनां सामान्यपरिणतिस्तिर्यक्सामान्यमित्यर्थः । तिर्यक्सामान्यमुदाहरति—यथेति - शाबलशाबलेयगो पिण्डेषु सदृशाकारपरिणामो यस्तदेव गोत्वं तिर्यक्सामान्यमित्यर्थः । एतदेव स्पष्टयन्नाह - तिर्यक्सामान्यं चेति । उदाहृतस्य गोत्वादिरूपतुल्यपरिणतिस्वरूपतिर्यक्सामान्यस्य ज्ञानाकारमुदाहरति — उदाहरणं चेति-गृहाङ्गणे या गोव्यक्तिर्मया दृष्टा तज्जातीय एवायं गोपिण्ड इत्यस्मिन् प्रत्यभिज्ञाने पूर्वोपलब्धगव्या सममिदानीमनुभूयमानगोपिण्डस्य साजात्यं यद् भासते तत् तुल्यपरिणतिरूपं सामान्यमित्यर्थः । गवि गवये च या समानपरिणतिस्तद्रूपतिर्यक्सामान्यविषयकः 'अयं गोसदृशो गवयः' इति बोध इत्याह- गोसदृशो गवय इति वेति । द्वितीयलक्षणमाह ऊर्ध्वतासामान्यलक्षणं कथयति । पूर्वेति - सुवर्णस्य पूर्वपरिणामः कटकात्माऽपरपरिणामः कङ्कणादिस्तदुभयसाधारणं तदुभ

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138