Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 72
________________ बालबोधिनीविवृतिविभूषितं पुनश्च क्षेत्रादपिचानन्तगुणं द्रव्यम्, द्रव्यादपि चावधिविषया: पर्यायाः सङ्ख्येयगुणा असङ्ख्येयगुणा वा । "खित्तपएसेहितो दव्वमणंतगुणियं पएसेहिं । ... दवेहितो भावो संखगुणोऽसंखगुणिओ वा"। -[ विशेषावश्यक० गाथा-६२५ ] - एतत् सर्व नन्दिटीकायां सविस्तरमभिहितम् । तस्माद् द्रव्यपर्याययोः स्वरूपविवक्षातो भिन्नत्वाद् भिन्ना नया द्रव्यार्थिकाः पर्यायार्थिकाश्च । ते च यद्यपि स्वभावभेदैः परस्परं मिलन्तोऽपि खखपृथग्भावं न त्यजन्ति, उक्तं च-- रूपात् पर्यायस्वरूपस्य भेद इत्याह---पुनश्चेति । पर्यायाणामवधिविषयतयोपदर्शनं च तथाऽभ्युपगमे प्रामाणिकत्वख्यापनाय । अत्रापि भाष्यसम्मतिमाह-खित्त० इति-"क्षेत्रप्रदेशेभ्यो द्रव्यमनन्तगुणितं प्रदेशैः । द्रव्येभ्यो भावः सङ्ख्यगुणोऽसङ्ख्यगुणितो वा” ॥ इति संस्कृतम्। विशिष्यैतत्तत्त्वावबोधनाय नन्दिटीका विशेषार्थिभिरवलोकनीयेत्युपदिशति-एतत् सर्वमिति । द्रव्यार्थिक-पर्यायार्थिकनययोर्विषयस्वरूपमेदाद् भेदं निगमयति-तसादिति । अर्थनयत्व-शब्दनयत्वादिभिः प्रदेश-वसत्यादिदृष्टान्तनिर्णीताभ्युपगमप्रकारैश्च परस्परं केषाञ्चिन्नयानां मेलनेऽपि यत्किञ्चिद्विषयवैलक्षण्यनिबन्धनान्योऽन्यपृथग्भावात्यागित्वमेवेत्युपदर्शयति-ते चेति-नयाश्चेत्यर्थः । अन्योऽन्यसम्मीलन-खस्वपृथग्भावापरित्यागौ नयानामित्यत्र वृद्धसम्मतिमुपदर्शयति-उक्तं चेति। अण्णोण्णं इति-“अन्योऽन्यं प्रविशन्तो ददतोऽवकाशमन्योऽन्यम् । मिलन्तोऽपि च नित्यं खस्वभावं न विजहति" ॥ इति संस्कृतम् । कैः

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138