Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 56
________________ ३८ बालबोधिनीविवृतिविभूषितं द्रव्यमुच्यते, नान्यत्, अन्यथा सर्वेषामपि पर्यायाणामनुभूतत्वादनुभविष्यमाणत्वाच्च सर्वस्यापि पुद्गलादेईच्यत्वप्रसङ्गादिति गाथार्थः॥ प्रसङ्गायातौ स्वभाव-विभावौ पर्यायौ प्रदश्यते-तत्रागुरुलघुद्रव्यविकाराः स्वभावपर्यायाः, तद्विपरीतः स्वभावादन्यथाभवनं विभावः। तत्रागुरुलधुद्रव्यं स्थिरं सिद्धिक्षेत्रम् यदुक्तं समवायाङ्गवृत्तौ___ "गुरुलघुद्रव्यं यत् तिर्यग्गामि वाय्वादि, अगुरुलघु यत् स्थिरं सिद्धिक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादीनि" इति । R अन्यथा योग्यस्यैव द्रव्यत्वमित्यस्यानभ्युपगमे । 'निजनिजप्रदेशसमूहैरखण्डवृत्त्या स्वभाव-विभावपर्यायान् द्रवतीति द्रव्यम्' इति यदुक्तं प्राक् तत्र कः स्वभावपर्यायः? कश्च विभावपर्यायः? इत्याकाङ्क्षानिवृत्तये आह-प्रसङ्गायाताविति । तत्र स्वभाव-विभावपर्याययोर्मध्ये । तद्विपरीतः खभावपर्यायाद् विपरीतः। यस्य यः खभावस्तद्रूपेण प्रतिक्षणं यद् भवनं तत् स्वभावपर्यायः, अगुरुलघुद्रव्यं सिद्धिक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादि च स्थिरखभावं प्रतिक्षणं तथाभावेनैव परिणमद् आस्ते, न कदाचिदन्यथाभावेनाऽस्थिरतया परिणमतीति; यच्च पूर्वखभावतोऽन्यथाभावेन परिणमनं तद् विभावपर्याय इत्यर्थः । अगुरुलघुद्रव्यं किम् ? यद्विकारः खभावपर्याय इत्यपेक्षायामाह-तत्रागुरुलघुद्रव्यमिति । गुरुलघुद्रव्यं वाय्वादि यत् तिर्यक् पवते, तद्विपरीतमगुरुलघुद्रव्यं स्थिरं सिद्धिक्षेत्रादिकमित्यत्र समवायाङ्गवृत्तिसंवादमाह-यदुक्तमिति । गुणविकाराणां पर्यायाणां द्वादशविध amM

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138