Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 46
________________ ૨૮ बालबोधिनीविवृतिविभूषितं धर्मः सप्तमङ्गप्रतिपाद्य एवेति न ततोऽधिकमासम्भावना । षष्ठमङ्गप्रतिपाद्ये नास्तित्वविशिष्टावक्तव्यत्वेऽपि पुनरुक्तत्वादेव न नास्तित्वावक्तव्यत्वयोर्वैशिष्ट्वं प्रविशति, अस्तित्ववैशिष्ट्यप्रवेशे तु सप्तमभङ्गविषयीभूतधर्मप्राप्तिरेवेति तत्प्रतिपादकः सप्तमभङ्ग एवेति नाधिकभङ्गसम्भवः । सप्तमभङ्गप्रतिपाद्येऽस्तित्व-नास्तित्वविशिष्टावक्तव्यत्वेऽस्तित्व-नास्तित्वाऽवक्तव्यत्वानां मध्यान्न कस्यापि वैशिष्टयं पुनरुक्तभयात् प्रविशति, इत्थमष्टमधर्माभावतोऽष्टमभङ्गासम्भवान्माष्टमङ्गीति भवति सुव्यवस्थितासप्तभङ्गी । तस्याः प्रतिभङ्गमुपपादने कल्पनाविभजनाशब्दसङ्घरचनातस्तत्तद्भङ्गप्रतिपाद्यानां तत्तद्धर्माणां कल्पितत्वमिति कल्पितार्थबोधवैचित्र्यमात्रं सप्तभङ्गया इति न चेतसि निधेयम् , यतः प्रतिपर्यायमाश्रित्यान्योऽन्याऽविभागवृत्तयः सप्तापि धर्मा वस्तुस्थित्याऽनन्तधर्मात्मके वस्तुनि समवयन्ति,तेषां प्रत्येकं स्वस्खनिमित्तापेक्षया वर्तनं यद् अस्ति तत्स्पष्टप्रतिपत्त्यर्थमेव तत्तत्कल्पनातो विभजनाऽऽश्रीयत इति सदर्थविषयिण्येव सा कल्पना, नैतावता काल्पनिकत्वं तत्तद्धर्माणाम् , नहि शाखावच्छेदेन वृक्षे कपिसंयोगो मूलावच्छेदेन तदभाव इति कल्पनया विभज्योपदर्शने वृक्षे कपिसंयोग-तदभावयोः काल्पनिकत्वमिति । सप्तधर्मप्रतिपादनतो निराकाङ्क्षार्थावबोधकत्वेऽपि सप्तभङ्गयाः प्रमाणप्रतिपन्नानन्तधर्मात्मकबस्तुविषयकबोधजनकत्वाभावे प्रमाणवाक्यत्वं न स्यादित्येतदर्थ सकलादेशता समाश्रीयते । द्रव्यार्थिकनयादेशात् कालादिभिरष्टभिरस्तित्वादिनैकधर्मेण सह तदन्येषामशेषधर्माणामभेदवृत्तिप्राधान्यात् पर्यायार्थिकनयादेशादभेदोपचाराद् वाऽस्तित्वाघेकधर्मावभासकत्वतस्तदभिन्नाशेषधर्मावभासकत्वेनामन्तधर्मात्मकवस्तुनो योगपचेन प्रतिपादकत्वं प्रतिमा सकलादेशत्वम्, ततश्च प्रतिभङ्गं प्रमाणवाक्यत्वम् , कालादिभिस्टमि

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138