Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 44
________________ २६ वालबोधिनीविवृतिविभूषितं भावविवक्षितधर्मद्वयप्रतिपादने किमपि वचनं प्रगल्भत इति तथाभूतं तद् अवक्तव्यतास्वभावमेव बिभर्तीति तस्य धर्मान्तरत्वव्यवस्थितौ तदवबोधकं वचनमावश्यकम् , तदन्तरेण तद्धर्मविशिष्टतया वस्त्वनवगमे निराकाङ्क्षार्थबोधासम्भवादिति तत्प्रतिपादकं 'स्यादवक्तव्य एव घटः' इति तुरीयभङ्ग आवश्यकः, तेन च कथञ्चिदवक्तव्यत्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताको बोधो जायते, युगपत्प्रधानभावविवक्षित धर्मद्वयमवक्तव्यताख्यधर्मभावं भजत इति, यथा च नास्तित्वेऽस्तित्व वैशिष्टयपरिप्रापितं धर्मान्तरं तृतीयभङ्गविषयः, एवं युगपत्प्रधानभावकलितस्यैकदैकेन शब्देन वक्तुमशक्यस्य विधि-निषेधलक्षणधर्मद्वयस्यावक्तव्यतालक्षणस्वभावान्तरशालित्वाद् धर्मान्तरत्वम् , अतस्तत्प्रतिपादकस्तुरीयो भङ्गः । तथाऽस्तित्वांशविधिकल्पना-युगपद्विधिनिषेधावक्तव्यांशकल्पनाभ्यां कथञ्चिदस्तित्व-कथञ्चिदवक्तव्यत्वयोर्वैशिष्ट्याकलननिबन्धनधर्मान्तरस्य प्राप्त्या तत्प्रतिपादकः 'स्यादस्त्येव स्यादवक्तव्य एव घटः' इति पञ्चमभङ्ग आवश्यक एव, तमन्तरेणोक्तविशिष्टलक्षणधर्मान्तरानधिगमे निराकासबोधासम्भवात् । तथा निषेधांशकल्पना-युगपद्विधिनिषेधकल्पनाभ्यां च कथञ्चिन्नास्तित्ववैशिष्टयानुरञ्जितकथञ्चिदवक्तव्यत्वधर्मप्राप्तौ तत्प्रतिपादकः 'स्यान्नास्त्येव स्यादवक्तव्य एव घटः' इति षष्ठो भङ्ग आवश्यकः । एवं क्रमिकविधिनिषेधकल्पना-युगपद्विधिनिषेधकल्पनाभ्यां कथञ्चिदस्तित्वकथञ्चिन्नास्तित्ववैशिष्टयानुस्यूतकथञ्चिदवक्तव्यत्वलक्षणधर्मान्तरप्राप्तौ तदवबोधकः 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव घटः' इति सप्तमो भङ्ग आवश्यकः । एकमस्तित्वपर्यायमाश्रित्य विधि-निषेधधर्मद्वयपरिकल्पनयोक्तदिशा सप्तैव धर्माः सम्भवन्ति । न चावक्तव्यत्ववद् वक्तव्यत्वधर्मोऽपि कथं न भवेदिति तत्प्रतिपादकाष्टम

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138