Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 31
________________ सप्तभङ्गी-नयप्रदीपप्रकरणम् । कथञ्चिद्रूपेण स्वद्रव्यचतुष्टयापेक्षयाऽस्ति परद्रव्यचतुष्टयापेक्षया नास्तीति प्रयोगप्रतिपत्तये तस्य तु प्रयोगो व्यवच्छेदफलैवकारवदनुक्तोऽपि द्रष्टव्यः, यदुक्तम् "सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात् प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजन" ॥१॥ तत एवकार-स्यात्कारयोः सप्तस्वपि भङ्गेषु ग्रहणं प्रतिपत्तव्यम् । विधिप्रधानत्वाद् विधिरेव प्रथमो भङ्गः। अथार्थतो द्वितीयभङ्गं प्रदर्शयन्ति-स्थानास्त्येवेति-निषेधप्रधानकल्पनयाऽयं मङ्गः । यदेव नियतं साध्यसद्भावेऽस्तित्वं प्रतिपत्तये । स्यात्कारलाञ्छितप्रयोगे सति यादृशप्रयोगप्रतिपत्तिभवति तमुपदर्शयति-कथञ्चिद्रूपेणेति । तस्य तु स्यात्पदस्य पुनः । स्थात्पदप्रयोगस्यावश्यकत्वे प्राचां सम्मतिमुपदर्शयति-यदुक्तमिति । स स्थाच्छब्दः। तज्ज्ञैः स्याद्वादज्ञैः । 'अयोगादि०' इत्यादिपदादन्ययोगाऽत्यन्तायोगयोग्रहणम् । एवं च सति सप्तस्वपि भङ्गेषु स्यादेवकारयोः प्रयोग आवश्यक इत्युपसंहरति-तत इति । विधिरूपार्थप्रधानकत्वेन प्रथमभङ्गस्य विधिरूपत्वमित्याह-विधीति । द्वितीयभङ्गमधिकरोतिअथेति । अयं भङ्गा-द्वितीयभङ्गः । अस्तित्वं नास्तित्वाविनाभूतमिति यत्रास्तित्वं तत्रावश्यं नास्तित्वमिति तत्प्रतिपादकस्य द्वितीयभङ्गस्यावश्यकत्वमित्याह-यदेवेति। वह्रिसद्भावे प्रमेयत्वस्यास्तित्वं न नियत ययभावेऽपि प्रमेयत्वस्य भावादिति न वयभावे प्रमेयत्वस्य नास्तित्वमित्यवबोधनाय-नियतमिति । सपक्षसत्त्व-विपक्षासत्त्वयोरविनाभावनिदर्शनेन प्रकृते विधि-निषेधयोरविनाभावस्य साधयितुमभिप्रेतस्य

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138