Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 34
________________ १६ बालबोधिनीविवृतिविभूषितं द्यपेक्षया कथश्चिदस्त्येव स्यात्, परद्रव्याद्यपेक्षया नास्त्येव स्यात् । विधि प्रतिषेधप्रधानोऽयं तृतीयो भङ्गः । अथार्थतश्चतुर्थभङ्गं व्यक्तीकुर्वन्ति - स्यादवक्तव्य [मेवेति-] युगपद्विधि-निषेधकल्पनया चतुर्थ इति सर्दशाऽसदंशयोद्वयोः समकालप्ररूपणानिषेधप्रधानोऽयं भङ्गः तथाही - विधिप्रतिषेधधर्मयोर्युगपत्प्रधानभूतयोरेकस्य पदार्थस्य युगपद्विधि-निषेधद्वय इति प्रधान विधान विवक्षायां तादृक्शब्दस्या[ भावेना] निर्वचनीयत्वादवक्तव्यं घटादि वस्तु, तस्य विधिप्रतिषेधधर्माक्रान्तस्यापि युगपद्द्द्वय धर्मस्यावक्तव्यरूपत्वाद् युगपद्विरुद्धद्वयधर्मस्याप्रयोगः शीतोष्णयोरिव सुखदुःखयोरिवानयोः क्रमेणैवार्थप्रत्यायने साम तुरीयभङ्गनिरूपणमधिकरोति — अथेति - विधि - निषेधयोर्युगपदेव प्रधानतया विवक्षितयोः समकालमेव तत्प्ररूपणप्रवणस्य कस्यचिच्छब्दस्याभावात् 'स्यादवक्तव्यमेव सर्वं वस्तु' इति तुरीयभङ्ग इत्यर्थः । तुरीयभङ्गं भावयति - तथाहीति । तादृक्शब्दस्य युगपत्प्रधानीभूतविधिनिषेधप्रतिपादकशब्दस्य । अनिर्वचनीयत्वाद् वक्तुमशक्यत्वात्, कोऽपि शब्दो युगपत्प्रधानीभूतविधि-निषेधप्रतिपादको नास्तीत्यभावादेव तादृशशब्दस्यानिर्वचनीयत्वादित्यर्थः । युगपद्विवक्षितप्रधानीभूत-विधिनिषेधधर्मद्वयस्य घटादिवस्तुनोऽवक्तव्यत्वं स्पष्टयति-— तस्येति - घटादिवस्तुनो विधि - निषेधधर्माक्रान्तस्य सतोऽपि युगपद् धर्मद्वयस्यावक्तव्यत्वेन तत्प्रतिपादकशब्दप्रयोगाभाव इति कृत्वा 'स्यादवक्तव्यो घटः' इति तुरीयभङ्ग इत्यर्थः । शीतोष्णशब्दौ सुख-दुःखशब्दौ वा यथा क्रमेणैवार्थप्रत्यायने समर्थी तथा सदसच्छब्दावपि क्रमेणैवार्थप्रत्यायने समर्थौ न तु युगपदित्याह - शीतोष्णयोरिवेति । क्त-क्तवत्वोः सङ्केतितोऽपि

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138