Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 39
________________ सप्तभङ्गी -नयमदीपप्रकरणम् । प्रसङ्ग इति ? तत्रोक्तं प्रमाणनयतत्त्वालोकालङ्कारे चतुर्थपरि०" एकत्र वस्तुनि विधीयमान निषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ||३७|| विधि प्रतिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् || ३८ ॥ प्रतिपर्यायं प्रतिपाद्य पर्यनुयोमानां सप्तानामेव सम्भवात् " ॥ ३९ ॥ इति । तथा च २१ तत्र उक्तप्रने । उक्तं श्रीदेवसूरीशैरुक्तम् । एकत्रेति - एकस्मिन् 'घटादिवस्तुनि विधीयमानाः स्वद्रव्यादिचतुष्टयैः सत्त्वादयः, निषिध्यमानाः परद्रव्यादिभिः सत्त्वादयः, अर्थात् परद्रव्यादिभिरसत्त्वादिलक्षणधर्माः, ते चानन्तधर्मा इति तदभ्युपगमेन तत्प्रतिपादकानन्तभङ्गसमूहलक्षणानन्तभङ्गीप्रसङ्गतः सप्तभङ्गी न सङ्गतेति चेतसि न निधेयमित्यर्थः । एकं सत्त्वधर्ममपेक्ष्य विधिनिषेधकल्पनया सप्तधर्मसम्भवतः सप्तभङ्गी, एवमेकं नित्यत्वधर्ममपेक्ष्य विधिनिषेधकल्पनया सप्तधर्मसम्भवतः सप्तभङ्गी, इत्येवं क्रमेणानन्तानामपि सप्तभङ्गीनामेव सम्भवो न त्वनन्तभङ्गीसम्भव इत्याह-- विधिनिषेधेति । यतः सत्त्वधर्ममाश्रित्य किमस्तित्वमेव किं नास्तित्वमेव ? किं क्रमिके ते एब ? इत्येवं सप्तैव प्रतिपाद्यपुरुषस्य प्रश्नाः, तत उत्तरवाक्यरूपा भङ्गा अपि सप्तैव युक्ता इत्याह-- प्रतिपर्यायमिति । सप्तभङ्ख्याः प्रमाणवाक्यत्वोपपत्तये सकलादेशत्वं नयवाक्यत्वोपपत्तये विकलादेशत्वं देवसूरय आमनन्ति, अन्ये पुनः 'स्यादस्त्येव, स्यान्नास्त्येय, - स्यादवक्तव्यमेव' इति भवन्त्रयस्याखण्डार्थत्वात् सकलादेशत्वम्, 'स्याद- स्त्येव स्याम्नास्त्येव' इत्यादिचतुर्णां भवानां सखण्डार्थत्वाद विकलादेशत्यमित्यभ्युपगच्छन्ति, तत्र श्रीदेवसुस्मितमेवाभिमुखीकृत्याह-राथा चेति www

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138