Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 33
________________ सप्तभङ्गी नयप्रदीपप्रकरणम् । दोषः, प्रतिसमयक्षयित्वाद् भावानाम् , नापि यस्मिन् समये उत्पादस्तसिन् विनाश इति मन्यतेऽस्माभिः, ततोऽस्तित्वस्याचिनाभावि नास्तित्वं सिद्धम् । एवं सर्व वस्तु स्व-परद्रव्यचतुष्टयापेक्षयाऽस्ति नास्ति, अस्तित्वप्रधानदशायां प्रथमो भङ्गः । निषेधदशायां तु द्वितीयो भङ्गः। - अथार्थतस्तृतीयभङ्गं प्रकटयन्ति-स्थादस्त्येव स्यान्नास्त्येवेति सर्व वस्तु क्रमेणैव स्व-परद्रव्यादिचतुष्टयाऽऽधाराऽनाधारविवक्षया प्राप्तपूर्वाऽपरभावाभ्यां विधि-निषेधाभ्यां प्रधानतया विशेषितं तृतीयभङ्गभाग भवति, घटवत् , यथा-घटः स्वीयद्रव्या त्पाद-विनाशौ समनुगतौ तथाऽपि यद्रूपेणोत्पादो न तद्रूपेण विनाशस्तदानी किन्त्वेकरूपेणोत्पादोऽन्यरूपेण विनाशः, यद्पेणोत्पादस्तद्रूपेण विनाशस्तु भिन्नसमय एवेत्याशयः, प्रतिसमयक्षयित्वेऽपि रूपभेदादेवोत्पाद-विनाशाविति न दोषः। वस्तुतः स्थैर्याभ्युपगन्तृभिरस्माभि:वमभ्युपगम्यतेऽपीत्याह--नापीति-एकरूपेणोत्पाद-विनाशयो कसिन् । क्षणे भाव इत्यत्रैव तात्पर्यमवसेयम् । प्रथम-द्वितीयभङ्गयोर्निर्गलितार्थस्वरूपमुपदर्शयति-एवमिति । निषेधदशायां नास्तित्वप्रधानदशायाम् । - तृतीयभङ्गमधिकरोति-अथेति । क्रमेणैवेति-एवकारेण योगपद्यव्यवच्छेदः, योगपद्येनास्तित्व-नास्तित्वयोः प्रधानतया विवक्षायां चतु, र्थभङ्गो दर्शयिष्यते, वस्तुनि विधि-निषेधौ समकक्षौ न पूर्वापरीभूतौतथाऽपि क्रमेण स्वद्रव्यादिचतुष्टयाधारस्य परद्रव्यादिचतुष्टयानाधारस्य घ विवक्षया प्राप्तपूर्वापरभावाभ्यां सत्त्वासत्त्वाभ्यां प्रधानतया विशेषितस्य वस्तुनः प्रतिपादकः 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति तृतीयो भङ्ग इत्यर्थः । उदाहरति-~यथेति ।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138