Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 35
________________ सप्तभङ्गी - नयप्रदीपत्रकरणम् । १७ र्थ्यात्, न तु युगपदितिः क्त क्तवतुसङ्केतितनिष्ठाशब्दवत्, अथवा पुष्पदन्तशब्देन सङ्केतितवत्, निष्ठाशब्देन पुष्पदन्तशब्देन वा क्रमेणैव क्तक्तवत्वोः सूर्य-चन्द्रमसोश्चार्थप्रत्ययः; तेन द्वन्द्वादिपदानामपि युगपदर्थप्रत्यायकत्वमपास्तम्, 'धव - खदिरौ स्तः ' इत्यत्र क्रमेणैव ज्ञानं न युगपदिति, तथैव प्रत्ययत्वात् सम निष्ठाशब्दो यथाक्रमेणैव क्तक्तवत्वोः प्रतिपादको न तु युगपत्, तथा यः कश्चिदेकः शब्दः सदसतोः सङ्केतितः स्यात् सोऽपि क्रमेणैव तयोः प्रतिपादकः स्यान्न तु युगपदित्याह -- क्त क्तवतुसङ्केतितनिष्ठाशब्दबदिति । एवम् 'एकयोक्त्या पुष्पदन्तौ दिवाकर - निशाकरौ' इति कोशात् पुष्पदन्तशब्दो दिवाकर-निशाकरयोः सङ्केतितोऽपि क्रमेणैव तयोः प्रतिपादको न तु युगपत्, तथा सदसतोः सङ्केतितादप्येकस्माद् यस्मात् कस्मादपि शब्दात् क्रमेणैव तयोः प्रतिपादनं न तु युगपदित्याह — अथवेति । समासवाक्यस्यापि क्रमेणैवार्थद्वयप्रतिपादकत्वं न तु युगपदिति न सदसतोः युगपत् प्रतिपादकं समासवचनमपीत्याह तेनेति । एकस्य शब्दस्य युगपदर्थद्वयप्रतिपादनसामर्थ्यविरहेणेत्यर्थः, अस्य 'अपास्तम्' इत्यनेनान्वयः समासेषु द्वन्द्वसमासस्यैव समस्यमानयावदर्थप्रधानकत्वम्, तस्यापि यदि न युगपदर्थद्वयप्रतिपादकत्वं तर्हि समासान्तरस्य युगपदर्थद्वयप्रतिपादकत्वाभावः प्राप्त एवेति विशिष्य द्वन्द्वस्य ग्रहणम्, आदिपदात् कर्मधारयादीनामुपग्रहः । ' धवखदिरौ स्तः' इत्यत्र यद्यपि धवखदिरयोरुभयोरपि प्राधान्यं तथापि क्रमेणैव धवखदिरयोज्ञानं न युगपदित्याह -धवेति । तथैव क्रमेणैव । प्रत्ययत्वाद्, अनुभक्तलात् खदिरौ स्तः' इति वाक्यतो धवखदिरावगाहिज्ञाने क्रमे२ सप्तभङ्गी - "

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138