Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 36
________________ बालबोधिनीविवृतिविभूषितं कालावाचकत्वात् । अवक्तव्यं जीवा-ऽजीवादि वस्तु युगपद्विधिप्रतिषेधविकल्पनया सक्रान्तमेव प्रत्यवतिष्ठते, अस्तित्व-नास्तित्वधर्मविशिष्टोऽपि समकालमस्तित्व-नास्तित्वाभ्यां वक्तुमनिर्वच. नीयो घट इति फलितार्थश्चतुर्थो भङ्गः ॥ अथार्थतः पञ्चमभङ्गं प्रादुष्कुर्वन्ति-"स्यादस्त्येव स्यादवक्तव्यम्" इति सदंशपूर्वको युगपत्सदंशा-ऽसदंशाऽनिर्वचनीयकल्पनाप्रधानोऽयं भङ्गः । स्वस्वद्रव्यादिचतुष्टयैर्विद्यमानत्वेऽपि दिन अवता जीवाजीवाधान्येन युगमय जीव णैव धवखदिरयोरवभासो भवतीति क्रमेणैव धवखदिरप्रत्ययत्वं तज्ज्ञान इत्यर्थः । धवखदिरयोर्युगपदेवामिलापकं नास्ति तत्र किमपि वचनम् , धवशब्दो यदा धवमभिधत्ते तदा नास्ति खदिरशब्दो यस्तदानीमेव खदिरमभिदध्यात् , खदिरशब्दश्च यदा खदिरमभिधत्ते तदा नास्ति धवशब्दो यस्तदानीं धवमभिदध्यादिति समकालं धवखदिरयोरवाचकत्वादित्याह-समकालावाचकत्वादिति । चतुर्थभङ्गाभिप्रेतमर्थमुपदर्शयति-अवक्तव्यमिति-युगपद्विधि-निषेधकल्पनया सङ्क्रान्तमेव-विषयीकृतमेव यदा जीवाजीवादि वस्तु भवति तदा तज्जीवाजीवादि वस्तु अवक्तव्यं प्रत्यवतिष्ठते, प्राधान्येन युगपद् विधिनिषेधविवक्षायां जीवाजीवादि वस्तु कीदृशमिति प्रश्ने 'अवक्तव्यं जीवादि वस्तु' इत्येवमुत्तरवचनाक्रान्तं भवतीत्यर्थः । वक्तुमनिर्वचनीयः वक्तुमयोग्यः । पञ्चमभङ्गमधिकरोति-अथेति-प्रथमभङ्गप्रतिपाद्येन कथञ्चिदस्तित्वेन सह तुरीयभङ्गप्रतिपाद्यस्यावक्तव्यत्वस्य संयोजनया 'स्यादस्त्येव स्यादवक्तव्यमेव सर्वं वस्तु' इति पञ्चमभङ्गः सदंशपूर्वको युगपत्सदसदंशानिर्वचनीयकल्पनाप्रधान इत्यर्थः। पञ्चमभङ्गाभिप्रेतमर्थमुपदर्शयति-वखेति।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138