Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 32
________________ बालबोधिनीविवृतिविभूषितं तदेव साध्याभावे साधनस्य नास्तित्वमभिधीयते, यथा घट: खद्रव्यचतुष्टयैरस्तित्वेन सिद्धः, तथा मुद्गरसंयोगादिना नष्टः सन् नास्तित्वरूपेण सिद्धो भवति, अस्तित्वस्य नास्तित्वाविनाभावित्वात् । तथा च क्षणविनश्वराणां भावानामुत्पत्तिरेव विनाशे कारणमिष्यते, तदुक्तम् "उत्पत्तिरेव भावानां विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तः [ स हि नाम न विद्यते ]" ॥१॥ इति उत्पत्तिरस्तित्वस्य सिद्धिं करोति सैव विनाशाऽपरपर्यायनास्तित्वस्य, मूलकारणत्वादविनाभावः सिद्धश्च । न च तेनैव खरूपेणास्तित्व-नास्तित्वयोरेकत्र स्थाने निरूपणाद् भावाऽभावयोरेक्यापत्तेरनिष्टप्रसङ्ग इति? भिन्नभिन्नसमयप्ररूपणायां नैष साम्यमावेदयति-यथेति । तथा च अस्तित्वस्य नास्तित्वाविनाभूतत्वे च । उत्पत्तेविनाशं प्रति कारणत्वे प्राचां सम्मतिमाह-तदुक्तमिति । ननूत्पत्ति-विनाशयोरविनाभावसिद्धावपि सवासत्त्वयोरविनाभावो न सिद्ध इत्यत आह-उत्पत्तिरिति-नबसत उत्पत्तिरस्तीत्युत्पत्तितोऽस्तित्वं सिद्धं भवति, उत्पत्तेविनाशकारणत्वाद् यत्रोत्पत्तिस्तत्रावश्यं विनाशः, विनाशश्च नास्तित्वमिति कार्यकारणभावादुत्पत्ति-विनाशयोरविनाभावे सत्त्वाऽसत्त्वयोरविनाभावोऽपि सिद्ध इत्यर्थः । ननु येनैव स्वरूपेणोत्पत्तिस्वभावं वस्तु तेनैव स्वरूपेण विनाशस्वभावमपीति स्वरूपाभिन्नत्वात् तयोरैक्यप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति-न चेति । उत्पत्तिस्वभावता यस्मिन् क्षणे ततो द्वितीयक्षणे विनाशस्वभावतेति भिन्नसमये भावाभावस्वभावत्वेऽपि नैकसमये तत्त्वमिति न सर्वथैक्यम् , कथञ्चिदैक्यं विष्टमेवेति प्रतिक्षेपहेतुमुपन्यस्यति-भिन्नभिनेति-यद्यपि एकक्षणेऽप्यु

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138