Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 30
________________ १२ बालबोधिनीविवृतिविभूषितं ष्टयापेक्षया कथञ्चिदस्ति, परद्रव्यादिचतुष्टयापेक्षया नास्ति च घट इत्युल्लेखः, अन्यस्यान्यदीयरूपापत्तौ स्वरूपहानिप्रसक्तिः। एवकारेण त्वीदृगुल्लेखको भङ्ग इत्यवधारणं स्यात् । अवधारणं च कर्तव्यम्, यदुक्तम् "वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित्" ॥१॥ -[ रत्नाकरावतारिका ] तथाप्यस्त्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्तम्भाधस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राः प्रतिनियतस्वरूपानुपपत्तिः स्यात् , तत्प्रतिपत्तये 'स्याद्' इत्यप्यव्ययं प्रयुज्यते । निमित्तभेदो नाश्रीयेत तर्हि सर्वात्मना घटस्याऽस्तित्वप्रसक्तौ घटस्य पटा• दिव्यावृत्तत्वेन यद् घटस्वरूपत्वं तदेव विलीयेतेत्याह-अन्यस्येति । 'स्याद्' इत्यनेन कथञ्चिदर्थावबोधनेऽपि एवकारोपादानाभावे खद्रव्यादिनाऽस्तित्वस्येव तदभावस्यापि प्राप्तिरप्रतिषिद्धत्वात् स्याद् , अतस्तन्निवृत्तयेऽवधारणार्थकैवकारोपादानमावश्यकमित्याह-एवकारेण विति । ईगुल्लेखकः स्वद्रव्यादिचतुष्टयापेक्षया कथञ्चिदस्ति परद्रव्यादिचतुष्टयापेक्षया नास्ति च घट इत्येवमुल्लेखकः । भङ्गेऽवधारणस्य कर्त्तव्यत्वे प्राचामनुमतिमुपदर्शयति-यदुक्तमिति । अन्यथा अनिष्टार्थनिवृत्तिप्रयोजनकावधारणार्थकैवकारानुपादाने । प्रतिनियतनिमित्तावबोधकस्यात्पदोपादानाभावे एवकारोपादानेऽपि सर्वप्रकारास्तित्वप्राप्तौ प्रतिनियतस्वरूपहानिः प्रसज्यत इति स्यात्पदमवश्यं प्रयोक्तव्यमित्याह-तथापीति । अवधारणार्थकैवकारोपादानेऽपीत्यर्थः । तत्प्रतिपचये प्रतिनियतस्वरूप

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138