Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 25
________________ सप्तभङ्गी - नयप्रदीपत्रकरणम् । विभागाभ्यां प्रयुक्तः, स्याच्छब्दाङ्कितः, सप्तविधत्वेन वाक्योपन्यासः, सा सप्तभङ्गी विज्ञेया । विधिः-सदंशः । प्रतिषेधः-असदंशः । पदार्थसार्थस्य सदंशाऽसदंशधर्माद्यनेकप्रकारविभजनयाsनन्तभङ्गीप्रसङ्गः तन्निरासायैकपदोपादानम् । विधि-निषेधाद्यनन्तधर्माऽध्यासिते एकस्मिन् जीवाजीवादिवस्तुनि अनन्तधर्मपरिप्रश्नकालेऽनन्तभङ्गसम्भवः, तद्व्यावृत्त्यर्थमेकैक धर्मपर्यनुयोगस्योपादानम् । एतेनानन्तधर्माध्यासितेष्वनन्तपदार्थेषु सत्खपि यात् 'प्रयुक्तः' इति लब्धस्य कथनम् । 'स्यात्काराङ्कितः' इत्यस्यार्थः'स्याच्छब्दाङ्कितः' इति । 'सप्तधा वाक्प्रयोग : ' इत्यस्यार्थः - 'सप्तविधत्वेन वाक्योपन्यासः' इति । 'सदंशः' इत्यनेन नित्यादिभावमात्रांशपरिग्रहः । ' असदंशः' इत्यनेनाऽनित्याद्यभावमात्रांशपरिग्रहः । 'एकत्र वस्तुनि' इत्यत्रैकपदोपादानप्रयोजनमुपदर्शयति-पदार्थसार्थस्येति - घटः सन् घटोsसन्नित्यादिभङ्गा यथा घटरूपधर्मिणि, तथा पटः सन् पटोsसन्नित्यादिभङ्गाः पटरूपधर्मिणि, तथा मठादिधर्मिण्यपीत्येवं पदार्थसार्थस्य सदंशाद्यनेकधर्म विभजनयाऽनन्तभङ्गीप्रसङ्ग इति तन्निरासायैकत्र वस्तुनीत्यर्थः । 'एकैकधर्मपर्यनुयोगवशाद्' इत्यत्र 'एकैकधर्मपर्यनुयोगः' इत्युपादानप्रयोजनमुपदर्शयति - विधि-निषेधाद्यनन्तधर्माध्यासित इति । अनन्तधर्मपरिप्रश्नकाल इति - जीवः किं सन्नेव किमसन्नेव : किं नित्य एव : किमनित्य एव ? किं भिन्न एव : किमभिन्न एव ? इत्येवंप्रश्नकाले प्रश्नसमसङ्ख्योत्तरवचनाभिधानतोऽनन्तभङ्गीप्रसङ्ग इति तद्व्यावृत्तये एकैकधर्मपर्यनुयोगस्योपादानम्, एकैकधर्ममधिकृत्य प्रश्नस्य सप्तविधत्वेन सप्तभन्या एव सम्भव इति । एतेन' -

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138