________________
-१०३ ]
प्रथमः स्तबकः $ १०३ ) अर्हद्दासहृदालवालवलयाज्जातो बुधैः संनुतः
प्रोन्मीलत्स्तवकोल्लसन्नवरसैरानन्दमुढेलयन् । मान्यश्रीपुरुदेवचम्पुविदितः कल्पद्रुमोऽनल्पकं
__ नृणामाश्रयिणां फलं वितनुतामाचन्द्रतारावंधि ॥७४।। इति श्रीमहदासकृतौ पुरुदेवचम्पुप्रबन्धे प्रथमस्तबकः ।
मत्स्येऽनिमेषवत्' इति विश्वलोचनः । रूपकश्लेषो। उपजातिच्छन्दः ॥७३॥ ६१०३ ) अहंदासेति-अर्हद्दासस्य हृदेव हृदयमेवालवालवलय आवापमण्डलं तस्मात् जातः समुत्पन्नः, बुधैविंद्वद्भिः संनुतः संस्तुतः, प्रोन्मीलन्तो विकसन्तो ये स्तबका गुच्छका अध्यायाश्च तेषुल्लसन्तः शोभमाना ये नवरसाः शृङ्गारहास्यकरुणादिनवरसाः पक्षे नूतनमकरन्दास्तैः, आनन्दं हर्षम्, उद्वेलयन् वर्धयन्, मान्यश्रीपुरुदेवचम्पुविदितः एतन्नामप्रसिद्धः, कल्पद्रुमः कल्पवृक्षः आश्रयिणामध्येतृणां विश्रामं कुर्वतां च नृणां पुंसाम् आचन्द्रतारावधि शशिनक्षत्रावस्थान- १० पर्यन्तं, अनल्पकं विपुलं फलं वितनुताद् विस्तारयतु । रूपकालंकारः । शार्दूलविक्रीडितच्छन्दः ।
इत्यहदासकृतेः पुरुदेवचम्पूप्रबन्धस्यवासन्ती समाख्यायां संस्कृत
व्याख्यायां प्रथमः स्तबकः समाप्तः ।
$ १०३ ) अर्हद्दासेति-जो अर्हदास कविके हृदयरूपी क्यारीसे उत्पन्न हुआ है, विद्वानोंके द्वारा जिसकी अच्छी तरह स्तुति की जाती है तथा खिले हुए स्तबकों-पुष्पगुच्छोंसे १५ सुशोभित नवीन रसोंसे ( पक्षमें स्तबक नामक अध्यायोंमें सुशोभित शृंगारादि नवरसोंसे) जो आनन्दको बढ़ा रहा है, ऐसा यह पुरुदेवचम्पु नामसे प्रसिद्ध कल्पवृक्ष-आश्रय करनेवाले—इसका पठन पाठन करनेवाले मनुष्योंके लिए जब तक चन्द्रमा और नक्षत्र हैं तब तक बहुत भारी फल प्रदान करता रहे।
इस प्रकार श्रीमान् अर्हदास रचित पुरुदेव वम्पु प्रबन्धमें प्रथम स्तबक समाप्त हुआ।
२०
१. स्थिति क०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.