________________
२३० पुरुदेवचम्पूप्रबन्धे
[६६२३नानामणिगणघृणिपूरनिमग्नसुरनिकरे विविधवाद्यरवमुखरितदिगन्तरे परितः परिस्फुरन्मणिदीपप्रभाविसरे नवरत्नचयविनिर्मितविवाहमण्डपान्तरे विलसमानमङ्गलद्रव्यसंगतशातकुम्भमयपूर्णकुम्भलम्भितमणिवेदिकामध्ये ताभ्यां कन्यामणिभ्यां पुरुदेवः चन्द्रिकाप्रसन्नताभ्यां गगनतल इव निशाकरो विरराज। $ २३ ) सौन्दर्यस्य तरङ्गिण्यौ शृङ्गाराम्बुधिचन्द्रिके ।
तच्चित्तमत्तकरिणः शृङ्खले ते बभूवतुः ।।१६।। $ २४ ) तयोः सौन्दर्यसंपत्तिः स्वप्नबुद्धेरगोचरा ।
गाहते सा कथंकारं गिरां पूरं कवीशिनाम् ।।१७।। $ २५ ) ते खलु कन्यामतल्लिके गुरुतरभारारोपणमेव चाञ्चल्यनिवारणधुरीणमिति कौतु
पकानां विततिषु पङ्क्तिषु विलम्बिनो ये नानामणिगणास्तेषां घृणयः किरणास्तेषां पूरे निमग्ना बुडिताः सुरनिकरा देवसमूहा यस्मिस्तस्मिन्, विविधवाद्यानां नानावादित्राणां रवेण शब्देन मुखरितानि दिगन्तराणि यस्मिस्तस्मिन्, परितः समन्तात् परिस्फुरन् देदीप्यमानो मणिदीपानां प्रभाविसरः कान्तिसमूहो यस्मिस्तस्मिन्,
नवरत्नानां चयेन समूहेन विनिमितो रचितो यो विवाहमण्डपस्तस्यान्तरे मध्ये विलसमानानि शोभमानानि १५ यानि मङ्गलद्रव्याणि तैः संगताः सहिता ये शातकुम्भपयाः सुवर्णरचिताः पूर्णकुम्भास्तैर्लम्भितं प्रापितं यत्
मणिवेदिकाया मध्यं तस्मिन्, ताभ्यां पूर्वोक्ताभ्यां कन्यामणिभ्यां कन्यारत्नाभ्यां पुरुदेवो वृषभनाथः गगनतले नभस्तले चन्द्रिका-प्रसन्नताभ्यां ज्योत्स्ना-निर्मलताभ्यां निशाकर इव चन्द्र इव विरराज शुशुभे । उपमा । ६२३) सौदर्यस्येति --सौन्दर्यस्य लावण्यस्य तरङ्गिण्यो नद्यौ, शृङ्गाराम्बुधेः शृङ्गारसारस्य चन्द्रिके
ज्योत्स्ने ते यशस्वतीसुनन्दे तच्चित्तमेव मत्तकरी तस्य जिनेन्द्रमानसमत्तमतङ्गजस्य शृङ्खले बन्धनहिजीरके २० बभूवतुः । रूपकम् ॥१६॥ ६२४) तयोरिति-तयोः यशस्वतीसुनन्दयोः सौन्दर्यसंपत्तिः लावण्यसंपद
स्वप्नबुद्धेः अगोचरा अविषया आसीत् सा सौन्दर्यसंपत्तिः कवोशिनां कवीन्द्राणां गिरां वाचां पूरं कथंकारं केन प्रकारेण गाहते प्रविशति । वचनागोचरा तदीयसौन्दर्यसंपत्तिरिति भावः ॥१७॥ ६२५) ते खल्वितिते पूर्वोक्त खलु प्रशस्ते कन्ये कन्यामतल्लिके गुरुतरस्य दुर्भरतरस्य भारस्यारोपणमेव समर्पणमेव चाञ्चलस्य
लक्ष्मीके मणिमय विलास दर्पणके समान आचरण करता था, नवीन चँदोवोंके समूह में २५ लटकते हुए नाना मणिसमूह की किरणोंके पूरमें जहाँ देवोंके समूह डूब गये थे, नाना
प्रकारके बाजोंके शब्दसे जिसमें दिगन्तराल शब्दायमान हो रहे थे, और जहाँ चारों ओर चमकते हुए मणि दीपकोंकी प्रभाका समूह सुशोभित हो रहा था ऐसे नवरत्नोंके समूहसे निर्मित उस विवाह-मण्डपके बीच में शोभायमान मंगल द्रव्योंसे सहित सुवर्णमय पूर्ण
कलशोंसे युक्त मणिमय वेदिकाके मध्य में उन दोनों कन्याओंसे युक्त भगवान् पुरुदेव ३० आकाशमें चाँदनी और निर्मलताके साथ चन्द्रमाके समान सुशोभित हो रहे थे । ६२३)
सौन्दर्यस्येति-सौन्दर्यकी नदी और शृंगार सागरको समुद्वेलित करनेके लिए चाँदनी स्वरूप वे दोनों वृषभजिनेन्द्र के चित्तरूपी मत्त हाथीको बाँधने के लिए सांकल स्वरूप हुई थीं ।।१६।। ६२४) तयोरिति-उन दोनोंकी सौन्दर्यरूप सम्पदा स्वप्नबुद्धिका भी विषय नहीं थीं अतः
वह कविराजोंके वचनपूर में कैसे अवगाहन कर सकती थीं ? ॥१७॥ २५ ) ते खल्विति - ___ ३५ वे श्रेष्ठ कन्याएँ, 'बहुत भारी भारका लाद देना ही चपलताको दूर करने में निपुण है' इस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org