________________
तृतीयः स्तबकः
११) अथ कदाचिच्चक्रधरकलितपूजासत्कारपूजितश्चक्रिप्रतिपादितां महतीं सेनां कोशदेशादिकं च प्रतिगृह्णानया श्रीमत्या पुरस्कृतः पित्रादिपरिवृतः, प्रस्थानसंसूचकभेरीभाङ्कारपूरितभुवनतलो वज्रजङ्घोऽनुवजितुमायातान्मन्त्रिपुरोहितपौरवर्गान्नातिदूरे विसृज्य पुरस्तरङ्गितचतुरङ्गबलेन सह स्वपुरं प्रति निर्जगाम । $२ ) महीतलं तदा व्योमतलं चोच्चकरेणुभिः ।
पुपूरे वनजङ्घस्य प्रयाणे परिजृम्भिते ॥१॥ ३) शङ्खास्तदानों पृतनाधिराजैरापूर्यमाणा द्वितयं निभेदुः।
शं तद्वियोगासहसज्जनानां वयस्ययनां रभसेन खं च ॥२॥
१) अथेति-अथानन्तरं कदाचित् चक्रधरेण वज्रदन्तेन कलितः कृतो यः पूजासत्कारस्तेन पूजितः, चक्रिणा पित्रा प्रतिपादिता दत्ता तां महतीं विशालां सेनां पृतनां कोशदेशादिकं च निधिजनपदादिकं च १० प्रतिगृह्णानया स्वीकुर्वाणया श्रीमत्या भार्यया पुरस्कृतोऽग्रेकृतः, पित्रादिभिः तातप्रभृतिस्वपक्षीयजनैः परिवृतः परिवेष्टितः प्रस्थानस्य प्रयाणस्य संसूचकः प्रख्यापको यो भेरीभाङ्कारो दुन्दुभिनादस्तेन पूरितं संभरितं भुवनतलं येन तथाभूतो वज्रजङ्घः, अनुव्रजितुमनुगन्तुम् आयातान् आगतान् मन्त्री च पुरोहितश्च पौरवर्गश्चेति द्वन्द्वस्तान् नातिदूरे किंचिद्रे विसृज्य प्रत्यावर्त्य पुरोऽग्ने तरङ्गितं वृद्धिंगतं यत् चतुरङ्गबलं चतुरङ्गसैन्यं हस्त्यश्वरथपदातिरूपं तेन सह स्वपुरं प्रति स्वकीयनगरमुत्पलखेटनगरी प्रति निर्जगाम निश्चक्राम । १५
२) महीतलमिति–तदा तस्मिन् काले वज्रजङ्घस्य प्रयाणे प्रस्थाने परिज़म्भिते वृद्धिंगते सति महीतलं पृथिवीतलं व्योमतलं नभस्तलं च उच्चकरेणुभिः पुपूरे । महोतलं उच्चा उत्तुङ्गाः करेणवो हस्तिन्यस्ताभिः पुपूरे व्योमतलम् उच्चका उत्थिता रेणवो धूलयस्तैः पुपूरे । श्लेषः ॥१॥ $ ३ ) शङ्खा इति-तदानीं प्रयाणकाले पृतनाधिराजैः सेनापतिभिः आपूर्यमाणा आध्मायमानाः शङ्खाः कम्बवो द्वितयं वस्तुद्वयं निभेदुः खण्डयामासुः । किं तत् । तयोः श्रीमतीवज्रजङ्घयोवियोगस्य विरहस्यासहाः सोढुमसमर्था ये सज्जनास्तेषां वयस्ययूनां २०
६१) अथेति-तदनन्तर किसी समय जो चक्रवर्ती के द्वारा किये हुए सम्मान सत्कारसे पूजित था, चक्रवर्ती के द्वारा दी हुई विशाल सेना और खजाना तथा देश आदिको स्वीकृत करनेवाली श्रीमतीने जिसे आगे किया था, पिता आदि परिवारके लोगोंसे जो घिरा हुआ था और प्रस्थानको सूचित करनेवाली भेरियोंकी जोरदार ध्वनिसे जिसने भुवनतलको व्याप्त कर दिया था ऐसा वनजंघ पहुँचानेके लिए आये हुए मन्त्री पुरोहित तथा नागरिकोंके २५ समूहको थोड़ी दूरीपर छोड़कर सामने लहराती हुई चतुरंग सेनाके साथ अपने उत्पलखेट नगरकी ओर चल पड़ा। ६२) महीतलमिति-उस समय जब वज्रजंघका प्रस्थान वृद्धिको प्राप्त हो रहा था तब पृथिवीतल और आकाशतल दोनों ही उच्च करेणुओंसे व्याप्त हो गये थे अर्थात् पृथिवीतल तो ऊँची-ऊँची हस्तिनियोंसे व्याप्त हो गया था और आकाश ऊँची उठी हुई धूलिसे भर गया था ॥११॥ $३) शंखा इति-उस समय सेनापतियों द्वारा फूंके गये ३० शंखोंने दो वस्तुओंको खण्डित किया था। एक तो श्रीमती और वज्रजंघके वियोगको सहन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org