________________
१४४
[ ४।६१३
पुरुदेवचम्पूप्रबन्धे तस्याधस्तात् त्रिवलिकपटात्कल्पितं तद्विरेजे
सोपानानां त्रितयमतनोः पादविन्यासहेतोः ॥१०॥
$ १३ ) हस्तोज्ज्वलोऽसौ नखशीतरश्मि
स्तस्यास्तुलां नाश्चति युक्तमेतत् । तथापि चित्राधिककान्तिशोभी
स्वातिप्रकाशं च चकार चित्रम् ॥११॥
$१४ ) तस्याः कुचो मारमदेभकुम्भी ध्रुवं तयोर्यत्परिमौक्तिकश्रीः ।
रोमावलीवल्लिमिषेण रेजे शुण्डाप्रकाण्डश्च चिरादधस्तात् ॥१२॥
किं घटीयन्त्रस्य दारु काष्ठविशेषः । तस्य घटीयन्त्रदारुणः अधस्तात् नीचैः त्रिवलिकपटात रेखात्रितयव्याजात अतनोः कामस्य पादविन्यासहेतोश्चरणन्यासनिमित्तात् कल्पितं रचितं तत् प्रसिद्धं सोपानानां निश्रेणीनां त्रितयं त्रयं विरेजे । रूपकोत्प्रेक्षे। मन्दाक्रान्ता छन्दः ॥१०॥$ १३ ) हस्तेति-तस्या मरुदेव्या हस्तेन हस्तनक्षत्रेणोज्ज्वलः शोभमानः असौ नखशीतरश्मिनखरचन्द्रः तुलां तुलाराशिं नाञ्चति न प्राप्नोति, एतद् युक्तमुचितम् पक्षे हस्ते करे उज्ज्वल: शोभमानो हस्तोज्ज्वलः नखः शीतरश्मिरिव नखशीतरश्मिः नखचन्द्रस्तुलामुपमा नाञ्चति न लभते सौन्दर्यातिशयादिति यावत् एतत् युक्तम् । तथापि चित्राया चित्रानक्षत्रस्याधिककान्त्या शोभत इत्येवंशीलः चित्राधिककान्तिशोभी सन्नपि स्वातिप्रकाशं स्वाते: स्वातिनक्षत्रस्य प्रकाशस्तं चकारेति चित्रमाश्चर्यम चन्द्रस्य चित्रानक्षत्रगतत्वे स्वातिनक्षत्रप्रकाशोऽसंगत इति भावः । पक्षे चित्राद्भुता याधिककान्तिस्तया शोभत इत्येवंशीलोऽपि सन् स्वस्यात्मनोऽतिप्रकाशस्तं चकार । श्लेषविरोधाभासौ। उपजातिवृत्तम् ॥११॥ १४ ) तस्या इति-ध्रुवमित्युत्प्रेक्षायाम् । तस्या मरुदेव्याः कुचौ स्तनो मारमदेभस्य मदन
मत्तमत्तङ्गजस्य कुम्भी कटौ आस्तामिति शेषः । यत् यस्मात्कारणात् तयोः कुचयोः परिमौक्तिकश्रीः परितः २० मुक्ताफलश्रीः आसीत् । रोमावलीवल्लिमिषेण रोमराजिलताव्याजेन अधस्तात् कुचयोरधः शुण्डाप्रकाण्डश्च
श्रेष्ठशुण्डादण्डश्च रेजे शुशुभे । स्तनयोरुपरि मौक्तिकहारश्री: गजगण्डयोश्च मुक्ताफलश्रीरासीदिति भावः ।
मानो कामदेवके द्वारा यौवनरूपी उद्यानकी वृद्धिके लिए नाभी रूपी नायिकाके पास लगाये हुए घटीयन्त्र-रेहट की क्या लकड़ी ही थी ? और उसके नीचे त्रिवलिके कपटसे कामदेवके
पैर रखनेके लिए निर्मित तीन सीढ़ियाँ ही क्या थी ? ॥१०॥ १३) हस्तेति-हस्त नक्षत्रपर २५ देदीप्यमान मरुदेवीका नखरूपी चन्द्रमा तुला राशिको प्राप्त नहीं था यह यद्यपि उचित था
तथापि चित्रा नक्षत्रकी अधिक कान्तिसे सुशोभित होता हुआ भी स्वाति नक्षत्रके प्रकाशको करता था यह आश्चर्यकी बात थी। (पक्ष में हाथमें शोभा देनेवाला मरुदेवीका चन्द्रतुल्य नख तुला-उपमाको प्राप्त नहीं होता था यह यद्यपि उचित था तथापि नाना प्रकारकी अधिक
कान्तिसे सुशोभित होता हुआ वह अपने अत्यधिक प्रकाशको करता था। ) ॥११॥ १४ ) ३० तस्या इति-मरुदेवीके स्तन निश्चित ही कामदेव रूपी मदोन्मत्त हाथीके गण्डस्थल थे
क्योंकि उनपर सब ओरसे मोतियोंकी शोभा विद्यमान थी (स्तनोंपर मोतियोंका हार पड़ा हुआ था और हाथीके गण्डस्थल में गजमोती विद्यमान थे) और उसके नीचे रोमराजि रूपी लताके बहाने उस कामदेव रूपी हाथीकी श्रेष्ठ सूंड़ सुशोभित हो रही थी ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org