________________
-६६ ]
तृतीयः स्तबकः
११९
विमाने चित्राङ्गदामरः, सूकरार्यश्च नन्दाख्यविमाने मणिकुण्डली त्रिदशः, कीशार्यश्च नन्द्यावर्त - विमाने मनोहरसुमनाः, नकुलार्यश्च प्रभाकरविमाने मनोहरनिलिम्पः समजायत ॥ $६५ ) पुण्योदयेन कलितं सुरलोकसौख्य
मासेदुषामतितरां सदाममीषाम् । श्रीमत्सरस्थितिरुरो भुवि कल्पकद्रु
क्रीडावने च समभूद्वत नैव चाभूत् ||३५||
$ ६६ ) नाकनारीमुखाम्भोजभ्रमरः श्रीधरः सुरः । बुभुजे सुचिरं भोगान्कन्दर्पसदृशाकृतिः ||३६||
Jain Education International
स्वर्गम् आसाद्य देवभूयं देवपर्यायम् उपजग्मतुः । $ ६४ ) तत्रेति – स्पष्टम् । ६६५) पुण्योदयेनेति – पुण्यो - दयेन सुकृतोदयेन फलितं प्राप्तं सुरलोकसौख्यं स्वर्गसातम् अतितरामतिशयेन आसेदुषां प्राप्तवताम् अमीषां १० पूर्वोक्तानां दिवि स्वर्गे सीदन्तीति घुसदस्तेषां देवानाम् उरोभुवि वक्षःस्थले कल्पकद्रुक्रीडावने च कल्पानोकहकेलिकानने च श्रीमत्सर स्थितिः अभूत् । उरोभुवि श्रीमान् शोभावान् यः सरो हारस्तस्य स्थितिरभूत्, कल्पकदुक्रीडावने च श्रीमत् शोभा संपन्नं यत्सरः कासारस्तस्य स्थितिः अभूत् । नैव च अभूत् उरोभुवि कल्पकटुक्रीडावने च श्रीमत्सरस्थितिर्नैवाभूदिति वत् - अद्भुतम् प्राक् सत्तां निवेद्य पश्चात्तन्निषेधेऽद्भुतम् 'वत् खेदे कृपानिन्दा संतोषामन्त्रणाद्भुते' इति विश्वलोचनः । उरोभुवि श्रिया लक्ष्म्या मत्सर स्थिति: ईर्ष्यास्थितिवाभूत् । १५ कल्पकद्रुक्रीडावने च श्रियाः शोभाया मत्सर स्थितिर्नैवाभूत् 'श्रीलक्ष्मी भारतीशोभाप्रभासु सरलद्रुमे' इति विश्वलोचनः । वसन्ततिलका छन्दः । श्लेषालंकारः ॥३५॥ $ ६६) नाकेति - नाकनारीणां देवीनां मुखाम्भोजेषु भ्रमरः षट्पदः कंदर्पसदृशाकृतिः कामकल्पकलेवर: श्रीधरः सुरो वज्रजङ्घचरः श्रीधरदेवः सुचिरं दीर्घकालपर्यन्तं भोगान् बुभुजे भुङ्क्तेस्म । रूपकालंकारः || ३६ || ६६७ ) यद्देव्य इति-- यद्देव्यो यस्य देव्यो यद्देव्यः यदीयदेवाङ्गनाः यश्च श्रीधरामरश्च सन्मुख्यः, सुमनोजनितान्तभाः, श्रीसारसदृशः पुष्यद्विलासगमनाः अभूवन् २० अभूच्चेति वचनश्लेषः । देवीपक्षे बहुवचने देवपक्षे चैकवचने व्याख्या कार्या । तत्र देवी पक्षे सत् समीचीनं मुखं यासां ता सन्मुख्यः प्रशस्तवदनाः, देवपक्षे सत्सु साधुषु मुख्यः प्रधानः, देवीपक्षे सुमनोज नितान्तभा: सुमनोभिः पुष्पैर्जायते स्मेति सुमनोजा तथाभूता नितान्तभा अतिशय कान्तिर्यासां तथाभूताः, देवपक्षे सुमनोज: शोभनमदनस्तस्यैव नितान्तभा अतिशय कान्तिर्यस्य सः देवीपक्षे आकारान्तो भाशब्दो देवपक्षे सकारान्तो भाशब्दः,
५
शार्दूल आर्यका जीव उसी ऐशान स्वर्ग में सुशोभित चित्रांगद विमानमें चित्रांगद देव, सूकर २५ आर्यका जीव नन्दु विमान में मणिकुण्डली नामका देव, वानर आर्यका जीव नन्द्यावर्त विमान में मनोहर नामका देव और नकुल आर्यका जीव प्रभाकर विमानमें मनोरथ नामका देव हुआ || $६५ ) पुण्योदयेनेति - पुण्यके उदयसे प्राप्त होने वाले स्वर्गके उत्कृष्ट सुखको प्राप्त हुए इन देवोंके वक्षःस्थलपर तथा कल्पवृक्षोंके क्रीड़ावनमें श्रीमत्सर स्थिति थी अर्थात् वक्ष:स्थल पर शोभासम्पन्न हारकी स्थिति थी और कल्पवृक्षोंके क्रीड़ावन में शोभासम्पन्न सरोवरकी ३० स्थिति थी अथवा उक्त दोनों ही स्थानों में श्रीमत्सरस्थिति नहीं थी यह बड़ी अद्भुत बात थी अर्थात् वक्षःस्थलपर लक्ष्मीकी मात्सर्य पूर्ण स्थिति नहीं थी और कल्पवृक्षोंके क्रीड़ावनमें शोभाकी मात्सर्य पूर्ण स्थिति नहीं थी ||३५|| ६६६ ) नाकनारीति- जो देवांगनाओंके मुखकमलका भौंरा था तथा जिसकी आकृति कामदेव के समान थी ऐसा वह श्रीधर देव दीर्घकाल तक भोगोंको भोगता रहा ।। ३६ ।। ६६७ ) यद्देव्य इति - जिस श्रीधरदेवकी देवियाँ सन्मुख्यः ३५ - समीचीन मुखवाली थीं, सुमनोज नितान्तभा - फूलोंसे उत्पन्न होनेवाली विशिष्ट कान्तिसे युक्त थीं, श्रीसारसदृशः - कमल के समान नेत्रोंसे सहित थीं और पुष्यद्विलासगमनाः
For Private & Personal Use Only
www.jainelibrary.org