________________
-५९ ]
द्वितीयः स्तबकः ५९ ) जम्बूद्वीपपूर्वविदेहविलसितवत्सकावतीमण्डलमण्डनायमानसुसीमानगराधिपतेरजितंजयनामधेयस्य सचिववरिष्टादमृतमतिनाम्नः सत्यभामायां जातः प्रहसितस्तत्सखश्च विकसितः । तावेतौ सदा सहचारिणो तर्कपारावारतलस्पशिधिषणो वादकलाप्रवीणो कदाचिन्मतिसागरनाममुनिवरमुपागतेन नरपतिना सह समागतौ सकलनिजशङ्काकलङ्कनिकारगभीरया गिरा जीवतत्त्वनिरूपणं कुर्वाणं मुनिपूषणमानम्य गृहोतसंयमौ सुदर्शनमाचाम्लवर्धनं चोपोष्य, विधाय च निदानं बलदेववासुदेवयोः कालान्ते महाशुक्र षोडशसागरोपमस्थितिसहिताविन्द्रप्रतीन्द्री संजातो, चिरममरसंपदमनुभूय स्वायुरन्ते च्युतो, धातकीखण्डसुन्दरपश्चिममन्दरपूर्वविदेहविराजितपुष्कलावतीविषयमण्डितपुण्डरीकिणोपुरी पालयतो धनंजयभूपालस्य जयन्तायशस्वतीदेव्योस्तनयो महाबलातिबलनामधेयो बलकेशवावजायताम् ।
--
----
प्रकारेण अवोचं जगाद । $ ५९ ) जम्बू द्वीपेति-जम्बूद्वीपस्य प्रथमद्वीपस्य पूर्वविदेहे विलसितं शोभितं यद् १० वत्सकावतीमण्डलं वत्सकावतीदेशस्तस्य मण्डनायमानं यत् सुसीमानगरं तस्याधिपतेः स्वामिनः अजितंजयनामधेयस्य सचिववरिष्ठात् मन्त्रिश्रेष्ठात् अमृतमतिनाम्नः सत्यभामायां भामायां जातः समुत्पन्नः प्रहसितः तस्य सखा तत्सखस्तदोयसुहृद् विकसितश्च । तावेतो प्रहसितविकसितो सदा निरन्तरं सहचारिणौ सहगामिनी तर्कपारावारस्य न्यायशास्त्राम्बुधेस्तलस्पशिणी धिषणा बुद्धिर्ययोस्तो तथाभूतौ वादकलायां शास्त्रार्थवैदग्ध्यां प्रवीणौ निपुणौ कदाचित् मतिसागरनाममुनिवरम् उपागतेन वन्दितुं प्राप्तेन नरपतिनाजितंजयेन राज्ञा सह १५ समागतौ समायातौ, सकलाः समस्ता या निजशङ्काः स्वकीयारेकास्ता एव कलङ्कस्तस्य निकारे तिरस्कारे दूरीकरण इत्यर्थः गभीरया निपुणया गिरा वाण्या जोवतत्त्वस्य निरूपणं प्रतिपादनं कुर्वाणं मुनिः पूषा इव तं मुनिसूर्यम् आनम्य नमस्कृत्य गृहीतसंयमौ धृतचारित्री सुदर्शनं तन्नामधेयम् आचाम्लवधनं च तन्नामधेयं व्रतं च उपोष्य उपवासं कृत्वा, बलदेववासुदेवयोर्बलभद्रनारायणयोनिदानं च निदानबन्धं च विधाय कृत्वा कालान्ते आयुरन्ते महाशुक्रे दशमस्वर्गे षोडशसागरोपमस्थितिसहितौ इन्द्रश्च प्रतीन्द्रश्चेति इन्द्र प्रतीन्द्रो संजातौ संभूतौ २० चिरं षोडशसागरपर्यन्तम् अमरसंपदम् देवसंपत्तिम् अनुभूय समुपभुज्य स्वायुषो स्वजीवितस्यान्ते च्युतो, धातकीखण्डे द्वितीयद्वीपे सुन्दरः शोभमानो यः पश्चिममन्दरः पश्चिमदिस्थितमेरुस्तस्य पूर्वविदेहे विराजितो विशोभितो यः पुष्कलावतीविषयस्तस्मिन् मण्डिता शोभिता या पुण्डरीकिणीपुरी तां पालयतो रक्षतो धनंजय
प्रकार कहा था । $ ५९) जम्बूद्वीपेति-जम्बूद्वीपके पूर्व विदेह क्षेत्रमें सुशोभित वत्सकावतीदेशके आभरणस्वरूप सुसीमा नगरके राजा अजितंजयके प्रधानमन्त्री अमृतमतिसे उनकी २५ सत्यभामा नामक स्त्रीसे उत्पन्न हआ एक प्रहसित नामका पुत्र था तथा प्रहसितका विकसित नामका एक मित्र था। ये दोनों सदा साथ रहते थे, इनकी बुद्धि न्यायशास्त्ररूपी समुद्रके तलका स्पर्श करनेवाली थी तथा शास्त्रार्थकी कलामें दोनों चतुर थे। किसी समय ये दोनों, मतिसागर नामक मुनिराजके पास गये हुए राजाके साथ आये थे, वहाँ अपनी समस्तशंकाओंरूपी कलंकको दूर करने में निपुण वागीके द्वारा जीवतत्त्वका निरूपण करनेवाले ३० श्रेष्ठ मुनिराजरूपी सूर्यको नमस्कार कर दोनोंने संयम ग्रहण कर लिया अर्थात् मुनिदीक्षा ले ली तथा सुदर्शन और आचाम्लवर्धन नामक व्रतके उपवास किये एवं हम बलभद्र और नारायण बनें ऐसा निदानबन्ध किया। आयुके अन्तमें दोनों महाशुक्र नामक दश स्वर्गमें सोलहसागरकी आयुवाले इन्द्र और प्रतीन्द्र हुए। वहाँ चिरकाल तक देवोंकी सम्पदाका उपभोग कर आयुके अन्त में वहाँसे च्युत हुए और धातकीखण्डमें सुशोभित पश्चिममेरु पर्वतके पूर्व विदेह क्षेत्रमें सुशोभित पुष्कलावती देशकी शोभायमान पुण्डरीकिणीपुरीकी रक्षा
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org