Book Title: Pramana Mimansa Tika Tippan
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 143
________________ ६१ दूषणाभासनिरूपणम् ।]. प्रमाणमीमांसा । 'स्थानात् १२ । अनुत्पत्या प्रत्यवस्थानमनुत्पत्तिसमा जातिः। यथा अनुत्पने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क वर्तते ? । तदेवं हेत्वभावादसिद्धिरनित्यत्वस्येति.१३। साधHसमा वैधर्म्यसमा वा या जातिः पूर्वमुदाहृता सैव संशयेनोपसंहियमाणा संशयसमा जातिर्भवति । यथा किं घटसाधात् कृतकत्वादनित्यः शब्द उत तद्वैधादाकाशसाधाद्वा निरवयवत्वानित्य इति ? १४। द्वितीयपक्षोत्थापनबुद्धया प्रयुज्यमाना 5 सैव साधर्म्यसमा वैधर्म्यसमा वा जातिः प्रकरणसमा भवति। तत्रैव अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे-नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति उद्भावनप्रकारभेदमात्रे सति नानात्वं द्रष्टव्यम् १५ । त्रैकाल्यानुपपत्त्या हेतोः अत्यवस्थानमहेतुसमा जातिः। यथा हेतुः साधनम् । तत् साध्यात्पूर्व पश्चात् सह वा भवेत् । यदि पूर्वम् ; असति साध्ये तत् कस्य साधनम् ? । अथ पश्चात्साधनम् ; पूर्व तर्हि सायम् , तस्मिंश्च पूर्वसिद्धे 10 किं साधनेन ? । अथ युगपत्साध्यसाधने तर्हि तयोः सव्येतरगोविसापायोरिव साध्यसाधनमा एक न भवेदिति १६ । अर्थापत्त्या प्रत्यवस्थानमापत्तिसमा जातिः । यद्यनित्यसाधम्यात्कृतकत्वादनित्यः शब्दः, अर्थादापद्यते नित्यसाधर्म्यानित्य इति । अस्ति चास्य नित्येनाकाशादिना साधम्यं निरवयवत्वमित्युद्भावनप्रकारभेद एवायमिति १७।। अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः । यथा यदि शब्दघटयोरेको धर्मः 15 कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति १८ । उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः। यथा यदि कृतकत्वोपपत्त्या शब्दस्यानित्यत्वम्, निरवयवत्वोपपत्त्या नित्यत्वमपि कस्मान भवति । पक्षद्वयोप- . पत्याऽनध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् १९। उपल ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः। यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वा- 20 दिति प्रयुक्ते प्रत्यवतिष्ठते-न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनम् ; साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते । उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनाऽपि विद्युदादावनित्यत्वम् । शब्देऽपि क्वचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवेति २० । अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । यथा तत्रैव प्रयत्नानन्तरीयकत्वहेतावुपन्यस्ते सत्याह जातिवादी-न प्रयत्नकार्यः शब्दः प्रागुच्चारणादस्त्येवासावाव- 25 रणयोगात्तु नोपलभ्यते । आवरणानुपलम्भेऽप्यनुपलम्भानास्त्येव शब्द इति चेत् न, आवरणानुपलम्भेप्यनुपलम्भसद्भावात् । आवरणानुपलब्धेश्चानुपलम्भादभावः । तदभावे चावरणोपलब्धेभोवो भवति । ततश्च मृदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रागुच्चारणादग्रहणमिति प्रयत्नकार्यत्वाभावान्नित्यः शब्द इति'२१ । साध्य १ तथैवानि०-डे । २ जैनं प्रति दृष्टान्तः साध्यविकलस्तेन हि शब्दत्वस्य नित्यानित्यत्वस्याभ्युपेतत्वात् व्याप्तिरप्यसिद्धा। ३ उद्भावनं प्र०-ता० । ४ तस्मिन् पूर्व सिद्धे-डे० ।५- द्भावनं प्र०-डे । ६ अत्र पूर्वोक्तमेवोत्तरम्। ७-०त्येवावर०-डे । ८ चेत् आ०-डे०। ९ अत्रोत्तरम्-प्रत्ययमेदभेदित्वात् अ(2). प्रसलानन्तरीयकत्वं विवक्षितशब्दस्य सिद्धमेव द्रव्यत्व(१)प्रयत्नेन शब्दो विवक्षितो जन्यत एव न तु व्यज्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340